________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०६ चरक-संहिता।
__ज्वरनिदानम् शानाच्च। यत् तु संक्षेपतः क्रियायोगो निदानपरिजनमिति सुश्रुतवचनदर्शनेन निदानज्ञानमन्तरेण निदानपरिवज्जनं न स्यात् अतो निदानमवश्यं वाच्यमिति व्याचप्टे, तन्न, व्याधेरुपलब्ध्यर्थ हि न निदानं ज्ञातव्यं भवति, क्रियान्तु भवतीति क्रियोपदेशे वक्तव्यं स्यादिति । ___ अथ तहि पूर्वरूपं नोच्यतां निदानरूपोपशयसम्प्राप्तयस्तूच्यन्तामिति चेत् ? न। विना हि पूज्वरूपं निदानादिभिश्चतुभिने व्याधेनिश्चयः स्यात् । यथा"हारिद्रवर्ण रुधिरश्च मूत्रं विना प्रमेहस्य हि पूच्वरूपैः । यो मूत्रयेत् तं न वदेत् प्रमेहं रक्तस्य पित्तस्य हि स प्रकोपः” इति। यत् तु व्याधिशानहेतुषु निदानादिषु पूच रूपस्यानुपादाने पूर्वरूपावस्थायां विहितक्रियाविशेषो न कर्तुं शक्यते भिषग्भिः, पूर्वरूपज्ञानावात् । उक्तञ्च सुश्रुते। वातिकज्वरपूर्वरूपे घृतपानमिति। वक्ष्यते चात्र ज्वरस्य पूर्वरूपे लघ्वशनमपतर्पण वेति । तदपि व्याध्युपलब्धिषपादाने साधकं न भवति। चिकित्सार्थ पूर्वरूपस्य ज्ञानस्यावश्यकखात् तत्रैवोपदिश्यतां पूर्वरूपमिति। शानहेतुषु उपादाने शानार्थं यत् तत् साधकं भवतीति । ___ अथ लिङ्गं नोच्यतां निदानपूर्वरूपोपशयसम्प्राप्तयस्तूच्यन्तामिति चेत् ? न। लिङ्गं हि विना व्याधेः स्वरूपशानं न स्याद् वातादिजखविशेषशानश्च । यत् तु रूपावस्थायां विहिता सर्वा चिकित्सा विना लिङ्गज्ञानं न सम्भवति, तस्माल्लिडं वक्तव्यमिति व्याचष्टे, तन्न। व्याध्युपलब्धिहेतुषु लिङ्गोपादाने साधकं भवति। चिकित्सार्थ लिङ्गज्ञानावश्यकले तत्रैव वक्तव्यं भवतीति। इत्थश्च व्याधेः साध्यवासाध्यबादिज्ञानार्थश्च निदानपूर्वरूपलिङ्गान्यवश्यं वक्तवानि भवन्ति । उक्तं हि सुखसाध्यलक्षणप्रकरणे हेतवः पूर्वरूपाणि रूपा. ण्यल्पानि यस्य वा इत्यादि। कृच्छ साध्यलक्षणे च-निमित्तपूर्वरूपाणां रूपाणां मध्यमे बले इति। तथा ज्वरस्यासाध्यलक्षणे--हेतुभिर्बहुभिर्जातो बलिभिबहुलक्षणः । ज्वरः प्राणान्तकृत्। एवं, पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया । यं विशन्ति विशत्येनं मृत्युज्वरपुरःसर । अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम्। विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवमिति। सुखसाध्यवादिज्ञानार्थश्चावश्यं वक्तव्यानि निदानपूर्वरूपलिङ्गानीति।।
अथोपशयोऽप्यवश्यं वक्तव्यः। न हि गूढलिङ्गच्याधीनामनभिव्यक्तखेन सङ्कीर्णलक्षणानाञ्चोपशयानुपशयाभ्यामन्तरेण विशेषज्ञानं भवति। वक्ष्यते ह्यत्र गृढलिङ्गं व्याधिमुपशयानुपशयाभ्यां परीक्षेतेति ।
For Private and Personal Use Only