________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः निदानस्थानम्।
१२०५ खाशवञ्च । रसश्चातुरगतो रसनेनानौचित्याद ग्रहणानुक्तेः परन्वनुमानेनोपलभ्यते । गन्धस्तु घ्राणेनेति । प्रत्यक्षमन्यत् सचमनुमानेनेति । __ अथैवमस्तु-निदानेन रोगस्य भविष्यतो वर्तमानस्यानुपशयेन निदानेनानुमानादुपलब्धौ सत्यां पुनः कथं पूर्वरूपादिभिर्शान मिष्यते ; ज्ञातस्य पुनर्शाने प्रयोजनाभावादिति चेत् ? न, निदानेन हि व्याधिरयं भविष्यतीति विज्ञायते, सच कीदृशो व्याधिरिति न विज्ञायते, न वा निदानादिपञ्चकान्यतममेकमप्यन्तरेण व्याधेः सर्वथा ज्ञानं भवति, तस्मादपरे ज्ञानहेतवो वक्तव्याः। एकनिदानकानाम् अनेकव्याधीनाञ्च समानानेकनिदानकानां वा न निश्चयेन व्याधीनां ज्ञानं भवति को व्याधिभविष्यतीति संशयात् । निदानस्य सन्निकर्ष-विप्रकर्षादिना जयपराजयविधातादितो व्याध्युत्पत्तिव्यभिचाराच्च । तस्मात् पूर्वरूपादीनां वक्तव्यखे सामान्यपूवरूपात केवलात व्याधेवातजखादिविशेषावधारणं न स्यात्, न वा विशेषेण पूर्वरूपात् केवलात् व्याधीनां निश्चयज्ञानं स्यात् । रक्तपित्तपित्तप्रमेहसन्देहे हि वक्ष्यते "हारिद्रवर्ण रुधिरश्च मूत्रं विना प्रमेहस्य हि पूर्वरूपैः। यो मूत्रयेत् तं न वदेत् प्रमेहं रक्तस्य पित्तस्य हि स प्रकोपः॥” इति । हारिद्रवर्णरुधिरवणेमूत्रदर्शने पूर्वमस्मात् प्रमेहपुचरूपमभूत् किं नाभूत् तं विज्ञाय निःसंशयो भवति न केवलहारिद्रवर्णरुधिरवणेमूत्रस्य रूपस्य दर्शनमात्रेण निःसंशयः स्यात, तस्मादपज्ञानमात्रतो न व्याधिज्ञानं भवति। नाप्युपशयात् केवलाद व्याधेनिश्चयः स्यात् । एकद्रव्योपशयानां वातिकानां पैत्तिकानाञ्च व्याधीनां मधुरस्निग्धादिभिरुपशये वातिकवत्तिकखान्यतरसंशयात् । व्याधिप्रभावेण चावम्यतिमिरादीनां कफजखनिश्चयो न वमनेन स्यात् इति । न वा केवलया सम्प्राप्तया व्याधिनिश्चयः स्यात्। वातादिः प्रत्येकमेव प्रतिरोगं सर्वरोगस्य नियमतः स्थानसंश्रयादिमत्तया व्याधिजनकखात् । स्वस्व. लिङ्गं विना वाताधवगमाभावात् । तस्मान्निदानादिपञ्चकात् समस्तादेव व्याधेरुपलब्धिर्भवति सव्वथैव। एकैकस्मात् तु कस्यचित् कदाचित् कथञ्चित् काचिदुपलब्धिर्भवति। __ अथ भविष्यति व्याधिनिश्चयश्चतुर्भिरिति निदानं नोक्त्वा शेषाणि चखायुच्यन्तामिति चेत् ? न। भूताद्यमिषङ्गादिजानां व्याधीनां निदानं भूतादिकमन्तरेण भूतलक्षणसमानलक्षणवातादिलिङ्गैः वातादिजवेन ज्ञानाभावात् । एवमग्निदधादिषु बोध्यम्। भूतादिनिदानेन हि तजज्ञानात् तस्मानिदानं वक्तव्यम् । निदानेनैव चानुपशयात्मकेन र ढलिङ्गानां व्याधीनां
For Private and Personal Use Only