________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०४
चरक-संहिता।
— ज्वरनिदानम् तस्योपलब्धिनिदानपूव्वरूपलिङ्गोपशयसम्प्राप्तितश्च । इत्यादि विकार इत्यन्तं सर्व प्रातिपदिकमनर्थान्तरमेकार्थकम् । परस्परमेकाथकं सद यमर्थमभिदधाति सोऽर्थो रोगो रोगलात् । यथा गोजातो गौरश्वजातश्चाश्व इति । तत्र व्यध ताड़ने इत्यस्य रूपं व्याधिः । अम रोगे चौरादिस्तस्य रूपमामय इति । गद व्यक्तायां वाचीत्यस्य रूपं गद इति संज्ञायाम् । तकि दौःस्थ्ये इत्यस्याङपूर्वस्य रूपमातङ्कः । यक्ष पूजने इति चौरादिकस्य संज्ञायां यक्ष्मा। ज्वर रोगे इत्यस्य रूपं ज्वर इति । विपूब्वेक कृत्रो रूपं विकार इति । एषां यथा धातुवैषम्यमुपादानं तथा चासात्म्येन्द्रियार्थसंयोगादित्रयञ्च कारणमिति। कुष्ठाख्यौषधिविशेषस्य व्याधिपर्यायवाच्यतेऽर्थान्तराभावाद् व्याधित्वं न प्रसज्यते, तोतिपदेनाग्नेयादीनामनुकर्षणात् । यक्ष्मा ज्वरश्चेति रोगसामान्ये यथा वत्तेते तथा रोगविशेषे च वर्तते। यथा शालशब्दो वृक्षसामान्ये वृक्षविशेषे च वत्तते। विस्तरेण रोगस्वरूपं विकारो धातुवषम्यमिति श्लोके व्याख्यातमिति ॥ ४॥
गङ्गाधरः--अथास्य व्याधे कुत उपलब्धिर्भवतीति अत उच्यते-तस्येत्यादि । तस्य धातुवैषम्यनिमित्तस्य तदनिमित्तस्य चासात्म्येन्दियाथेसंयोगादिजस्य व्याधेः स्वरूपतः प्रभेदतः साध्यवासाध्यवादितो बलाबलतोऽनुबन्ध्यानुबन्धादितश्च सव्वेतोभावेनोपलब्धियथासम्भवं प्रत्यक्षमनुमानञ्च निदानादिभ्यः पूर्वमाप्तोपदेशेन ज्ञातस्य । यथा हिक्कादौ शब्दः श्रोत्रेण प्रत्यक्षमुपलभ्यते । शैत्योष्ण्यादिकमातुरगतं स्पशेनेन। कृष्णारुणश्वेतपीतादिकं चक्षुषा कृश
शब्दानां भयाद्यर्थताव्युदासाद् व्याधिलक्षणत्वं बोध्यम् । आतङ्कन हि भयमप्युच्यते, विकारशब्देन हि इन्द्रियादयोऽपि पोड़श विकारा उच्यन्ते। तथा व्याध्यादिशब्दानां व्युत्पत्त्या रोगधर्मा लक्षणीयाः ;-तथा च विविधं दुःखमादधातीति व्याधिः। प्रायेणाम पमुत्थत्वेनामय उच्यते। मातङ्क इति दुःखयुक्तत्वेन कृच्छ्रजीवनं करोति । वचनं हि "आतङ्कः कृच्छजीवने"। यक्ष्मशब्देन च राजयक्ष्मवदनेकरोगयुक्तत्व विकाराणां दर्शयत्ति ; ज्वरशब्देन च देहमनःसन्तापकरत्वम्। विकारशब्देन च शरीरमनसोरन्यथाकरणत्वं व्याधेर्दर्शयति। रोगशब्देन च रुजाकत्र्तृत्वम् ॥ ३॥४॥
चक्रपाणिः-- इदानीं व्याधेर्जनकहेतुमभिधाय तथा तद्धतुजन्यञ्च व्याधिमुक्त्वा तस्य व्याधेर्ज्ञानोपायमाह-तस्येत्यादि। अविज्ञाते हि व्याधौ चिकित्सा न प्रवर्तते । अतः सामान्ये न व्याधिज्ञानोपायनिदानपञ्चकाभिधानम् ।
For Private and Personal Use Only