________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
निदानस्थानम्।
१२०३ तत्र व्याधिरामयो गद आतङ्को यक्ष्मा ज्वरो विकार* इत्यनान्तरम् ॥४॥ ऽपि खग्रसमांसादिवैषम्यजा एव, किश्चित्कालं प्रथमं यद्वातादिदोषसम्बन्धरहितास्तावत्कालं पित्तकफानिलेभ्यो विशिष्टा न पित्तादिदोषात्मकाः । तस्मादाभ्यन्तरहेतवो न सन्ति ज्वरादयो हि धातुवैषम्यरूपव्याधिजन्यखाद् व्याधय उच्यन्ते । यथा पञ्चभूतारब्धं वस्तु द्रव्यारब्धवात् द्रव्यं तदुक्तं सेन्द्रियं चेतनं द्रव्यं निरिन्द्रियमचेतनमिति । एवं वक्ष्यते चात्र । कश्चिद्धि रोगो रोगस्य हेतुभूखा प्रशाम्यतीति । स च रोगजवाद रोगः इत्यतो रोगाख्यहेतुर्नाधिक इति। यथा पञ्चभूतजमन्नमन्नजञ्च शुक्रमित्यन्नं न पृथगद्रव्यं भूतेभ्य इति ।
एवं त्रिविधे हेतो सिद्धान्ते तत्कायमाह-अत इत्यादि। अतस्त्रिविधात् असात्म्येन्द्रियार्थसंयोगादितः। यथा धातुवैषम्यं स्यात् तद्विधं शस्त्रादिजसद्योत्रणाद्यागन्तुकं वातादिवैषम्यश्च । तद्वातादिवैषम्यनिमित्ता ज्वरादयश्चेति । त्रिविधा आधिभौतिका आध्यात्मिका आधिदैविकाश्चेति त्रिविधाः आग्नेयादिनिद्देशेनैव विविधखे सिद्धे त्रिविधवचनात् ख्यापिताः। आग्नेया इत्यादि पृथकपदनिद्देशेन त्रिविधाद्धेतोयेथाह न तु यथाक्रमम् । त्रिधा व्याधीनाहआग्नेया इत्यादि। शारीरास्त्रिधाग्नेयादिभेदात्। तत्र मातृजधातुवैषम्यरूपा आग्नेयास्तथा पैत्तिकाश्च । पितृजधातुवैषम्यरूपाः सौम्याः श्लैष्मिकाश्च । वातवैषम्यं तन्निमित्ताश्च वायव्या इति । अत्रागन्तवोऽन्तर्भवन्ति। द्विविधाश्चापरे मानसा राजसास्तामसाश्च । आग्नेयस्य राजसखं वायव्यस्य च तथा सौम्यस्य तामसवम् यद्यपि तथापि साक्षात्कारणेन भूतेन निद्देशो न खतिपरम्पराकारणेन गुणेन। इति ॥३॥
गङ्गाधरः-अथ वातादिरसादिस्वेदादीनां शारीराणां धातूनां रजस्तमसोमानसयोश्च धातोः सत्त्वस्य च वैषम्येभ्यो विकारेभ्यो जातानां ज्वरादीनां कामक्रोधादीनाश्च विकारत्वं किमस्ति नास्ति वा इति ? अत उच्यते-तत्रेत्यादि। तत्राग्नेयादिषु त्रिविधेषु राजसतामसेषु च धातुवैषम्यनिमित्तेषु रोगेषु व्याधिः भवन्ति ; यतस्तत्रापि हि दोपप्रकोपव्यपदेशोऽस्त्येव ; किंवा 'अपरे' इत्यप्रधानाः, परो हि श्रेष्ठ उच्यते ; अप्रधानत्वे चोक्त वोपपत्तिः। व्याधीनामाम्नेयादिविभागं दर्शयित्वा व्यवहारार्थ लक्षणार्थञ्च पर्यायानाह-अन्न व्याधिरित्यादि। अत्रापि पर्यायाणामनर्थान्तरेणातङ्कादि
* इतः परं रोग इत्यधिक पाठो बहुषु ग्रन्थेषु दृश्यते ।
For Private and Personal Use Only