________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४५६
चरक-संहिता। (जनपदोद्ध्वंसनीयविमानम् तत्राह पुनर्वादी। न प्रलयोऽणुसद्भावात् । । तथाविधे विनाशेऽप्यणवो हि सन्ति यैः पुनः सृज्यते इति चेत् तत्राह प्रलयवादी। पूर्णे कल्पान्तकाले तेषामणूनां सद्भावानुपपत्तिराकाशव्यतिभेदात् । यदि तेषामन्तवहिवाकाशसमावेशो नास्ति तदाकाशस्यासर्वगतवं प्रसज्यते। आकाशव्यतिभेदात् तु तेषां बिनाशिवमतः प्रलयावसाने तेषां मूक्ष्मभूतानां पुनः सर्ग उक्तः। तद यथा मनुना। अण्व्यो मात्रा विनाशिन्यो दशा नाञ्च याः स्मृताः । ताभिः सार्द्धमिदं सर्व सम्भवत्यनुपूर्वशः । तस्य सोऽहनिशस्यान्ते प्रसुप्तः प्रतिबुध्यते। प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् । मनःसृष्टि विकुरुते चोद्यमानं 'सिसक्षया। आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः। आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः। बलवान् जायते वायुः स वै स्पर्शगुणो मतः। वायोरपि विकुळणाद विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भास्वत् तद्रूपगुणमुच्यते । ज्योतिषश्च विकु णादापो रसगुणाः स्मृताः। अद्भयो गन्धगुणा भूमिरित्येषा सृष्टिरादितः। इति। यथा पुनः लोकसर्गे पञ्चमहाभूतसर्गः कल्पान्ते तेषां नाशात् तथा पुरुषेऽपि पुनर्जन्मनि पश्चमहाभूतानां पुनः सगों वक्ष्यते शारीरे। यथा-प्रलयात्यये सिमृक्षुः भूतान्यक्षरभूतः पूर्वतरमाकाशं सृजति। ततः प्रव्यक्ततरगुणांश्चतुरो वायवादीन् भावान्। तथा देहप्रग्रहणेऽपि सत्त्वकरणो गर्भाशयमनुपविश्य सत्त्वोपादानः पूर्वतरमाकाशं सृजति ततः प्रव्यक्ततरगुणान् वायवादीश्चतुरो भावानिति । कल्पान्तेऽणूनां त्रुटिर्भवति लोके मरणे तु पुरुषे च। तस्मादस्ति प्रलयः। । तत्राह पुनवादी। परं वा त्रुटेरिति । ०। कल्पान्ते पूर्वपूर्वानुपविष्टानां वाय्वादीनामणूनां त्रुटेः परश्चाकार्याणामणूनां गन्धतन्मात्रादीनां पृथिव्यादीनां सद्भावान्न प्रलयः । ० । तत्राह प्रलयवादी। आकाशव्यतिभेदात् तदनुपपत्तिः आकाशास+गतलं वा। इति । तत्राप्याह वादी। अन्तर्वहिश्चाकाशः कार्यस्य कारणान्तरवचनादकाय्ये तदभावः। नव हि द्रव्याणि गन्धमात्रादीनि । । रूपादयः सप्तदश गुणाः पञ्च चोत्क्षेपणादीनि काण्येतत् सर्वं सन्नित्यम् अद्रव्यवत कारणं सामान्यविशेषवचंति नैपामन्तराकाशव्यतिभेदो वहिस्तु तत्राकाशं सव्वसंयोगशब्दविभवाच्च सर्वगतम्। अव्युहाविष्टम्भविभुखानि चाकाशधाः । अण्ववयवस्यानुतरतमवप्रसङ्गादणोः कार्यवप्रतिषेधः । कार्यकारणद्रव्ययोः परिमाणभेददर्शनात् । । तत्राह प्रलयवादी। कार्यद्रव्याणां कारणद्रव्यमः परिमाणभेदर्शनादेव। ममिलाञ्च संस्थानोपयो कारण
For Private and Personal Use Only