SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४५४ घरक-संहिता। , जनपदोद्ध्वंसनीयविमानम् स्थूलदेहात्मसंयोगनाशे नित्यानुबन्धपञ्चमहाभूतसहित-मूक्ष्मशरीरि-पुरुषसद्भाव एव। तस्मात् नित्यप्रलयो नास्तीति। तत्रोत्तरमाह प्रलयवादी। कृतादिषु चतुषु युगेषु क्रमेण धर्मपादक्षये भूम्यादीनां गुणपादक्षयस्ततः पाणिनामायुःक्षयः कलिशेषे निःशेषेण भवति ततो न प्राणी जायते इत्येवं त्रुटिः स्यात् तस्मादस्ति प्रलयश्चतुर्युगान्ते पुनश्च कृतपत्तौ ब्रह्मा पूर्ववत् सम्पूर्णायुषं सर्व सृजतीति । २। तत्राह वादी-परं वा त्रुटेः । ३। तथाविधचतुर्युगान्ते प्राणिनां त्रुटेः परं वाणुसद्भावान्न प्रलयो न हि स्रष्टा सूक्ष्मशरीरिणं सृजति स च वर्त्तत एवेति ।३। तत्राह प्रलयवादी-आकाशव्यतिभेदात् तदनुपपत्तिः । ४। तस्याणोः सद्भावस्यानुपपत्तिराकाशव्यतिभेदात्। तेषामणूनाम् अन्तर्वहिश्चाकाशेन · सम्प्रवेशाविनाशिवात्। तेषामणूनामारम्भकाणामन्तबेहिश्वाकाशोऽस्ति ततस्तेषामवयवानां विभागेन त्रुटिः स्यात् ततः प्रणाश इति ।४। यद्याकाशेनान्तर्वहिश्च व्यतिभेदः समावेशोऽणूनां नेष्यते तदा खलु ।। आकाशास+गतवं वा ।५। अणूनामन्तर्वहिराकाशाभावे ह्याकाशस्य अस+गतलं वा प्रसज्यते ।५। तत्राह वादी-अन्तर्वहिश्च कार्य्यस्य कारणान्तरवचनात् अकार्ये तदभावः ।६। कार्य्यद्रव्यस्य शरीरेन्द्रियविषयसंशस्य कारणान्तरस्य पृथिव्यादिभूतवचनादन्तर्वहिश्चास्त्याकाशः। अकाट्ये पाण्यप्राणिनां कारणभूते द्रव्ये पञ्चमहाभूतमनोदिक कालात्मनि वहिरन्तश्चाकाशस्याभाव इति। ६। न चाकाशस्यासव्वंगतवं ततो भवति, कथम् सर्वसंयोगशब्दविभवाच सगतलम् । ७। सर्वगतञ्चाकाशं सर्वसंयोगशब्दविभवात्। परमाणुभिस्तत्काय॑श्च सह संयोगा आकाशे विभवन्ति। यत्र कचिदुत्पन्नाश्च शब्दा आकाशे विभवन्ति तदाश्रयाश्च भवन्तीति । ७। अव्यूहाविष्टम्भविभुखानि चाकाशधर्माः। ८। अव्यूहादयश्चाकाशधाः । संयुतप्रतिघातिना द्रव्येणाकाशो न व्यूह्यते काष्ठेनेवोदकं निरवयवखात्। सर्व प्रतिघातिद्रव्यञ्च नाकाशं विष्टभ्नाति नास्य क्रियाहेतु गुणं शब्दं प्रवनात्यस्पर्शवात्। अण्ववयवस्य अणुतरतमवप्रसङ्गादणोः कार्यत्वप्रतिषेधः। कार्यकारणद्रव्ययोः परिमाणभेददर्शनात्। एवं तर्हि मरणोत्तरकालमणुसद्भावान्न प्रलयः इति । ८ । तत्राह प्रलयवादी। कार्यकारणद्रव्ययोः परिमाणभेदादेव । मूर्त्तिमताञ्च संस्थानोपपत्तेरवयवसद्भावः । ९। कार्यकारणद्रव्ययोः परिमाणभेदाद् व्याकृताव्याकृतमूर्त्तिमतां त्रिकोणादिसंस्थानोपपत्तेरारम्भकावयवसद्भावः । त्रिकोणं चतुष्कोणं परिमण्डलमित्येवं संस्थीयते यत् तत् संस्थानं सोऽवयवसन्निवेशः। परि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy