SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः । विमानस्थानम् । १४५३ कृतयुगम्, द्वादश वर्षसहस्राणि दिव्यानि चतुर्युगं, चतुणों युगानामेकसप्ततिर्मन्वन्तरम्, चतुर्युगसहस्रश्च कल्पः, स च पितामहस्यैकमहस्तावती चास्य रात्रिः, ते च द्वे अस्याहोरात्रः, एवं विधेनाहोरात्रेण भासवर्षगणनया, सर्वस्यैव हि ब्रह्मणो वर्षशतमेव खल्वायुः, ब्रह्मायुषा परिच्छिन्नः, कालः पौरुषो दिवसः, तस्यान्ते महाकल्पः, तावत्येव चास्य निशा, पारुषाणामहोरात्राणामतीतानां सङ्खधव नास्ति न च भविष्याणामनाद्यन्तता कालस्य, एवमस्मिन् निरालम्ब काले सततयायिनि । न तदर्भूतं प्रपश्यामि स्थितिर्यस्य भवेद् ध्रुवा। गङ्गायाः सिकता धारास्तथा वर्पति वासवे। शक्या गणयितु लोके न व्यतीताः पितामहाः। चतुर्दश विनश्यन्ति कल्प कल्पे सुरेश्वराः। सर्वलोकप्रधानाश्च मनवश्च चतुर्दश। वहूनीन्द्रसहस्राणि दैत्येन्द्रनियुतानि च। विनष्टानीह कालेन मनुजेवथ का कथा। इति । ___ अस्य प्रलयस्य वादप्रतिवादाभ्यामक्षपादगौतमेन न्यायशासने स्थापना कृता। तद् यथा—अवयवावयविप्रसङ्गश्चैवमा प्रलयात् । न प्रलयोऽणुसदभावात् । परं वा त्रुटेः। आकाशव्यतिभेदात् तदनुपपत्तिः । आकाशासवगतत्वं वा । अन्तवहिश्च कार्यस्य कारणान्तरवचनादकाये तदभावः। सर्वसंयोगशब्दविभवाच सर्वगतम् । अव्यूहाविष्टम्भविभुखानि चाकाशधाः । मूर्त्तिमताश्च संस्थानोपपत्तेरवयवसद्भावः। संयोगोपपत्तेश्च । अनवस्थाकारिखादनवस्थानुपपत्तेश्चापतिषेधः । बुद्धया विवेचनात् तु भावानां याथात्म्यानुपलब्धेस्तन्वपकर्षणे पटसद्भावानुपपत्तेयेदवशिष्यते। व्याहतवादहेतुः। तदाश्रयत्वादपृथग्ग्रहणम् । प्रमाणतश्चार्थप्रतिपत्तेः प्रमाणानुपपत्त्युपपत्तिभ्याम् । इति षोड़शभिः सूत्रः प्रलयस्थापना वार्तिकेन व्याख्याता । तद् यथाअवयवावयविप्रसङ्गश्चैवमा प्रलयादिति। एवमुक्तप्रकारेणावयविसिद्धौ सत्याश्चावयवावयविभावप्रसक्तिरा प्रलयात प्रलयपर्यन्तं भवति। प्रलये तु तद्विनाशात् । चतुर्विधो हि प्रलयो नित्य-नैमित्तिक-त्रिविधप्राकृत- निर्वाणमोक्षभेदात्। तत्र प्राणिनस्वेते यदविरतमहरहम्रियन्ते स नित्यमलयः, सर्वदाविनाशः कल्पान्तो नैमित्तिकः, प्राकृतस्तु महाप्रलयो निर्वाणप्रलयो महानिर्वाणप्रलय इति त्रिविधो निर्वाणमोक्ष आत्यन्तिकालयः। तत्र यावजीवति तावद् देवदत्तादिरवयवावयविभावापन्नो यदा म्रियते तदा नावयवी इति ।१। तत्राह वादी । न प्रलयोऽणुसद्भावात् । २। आ प्रलयादवयवावयविभावप्रसङ्ग इति यदुक्तं तत्र प्रलयो नास्ति, अणुसद्भावात् । प्राणिनां मरणे For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy