________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४५०
चरक-संहिता। (जनपदोद्ध्वंसनीयविमानम् मारुतपरीतानि - प्राग व्याधिभिर्वरादिभिः आक्रान्तान्यतः प्राणिनो हासमवापुरायुषः क्रमश इति ।
__ भवतश्चात्र। युगे युगे धर्मपादः क्रमेणानेन हीयते । गुणपादश्च भूतानामेवं लोकः प्रलीयते ॥ संवत्सरशते पूर्णे याति संवत्सरः क्षयम् ।
देहिनामायुषः काले यत्र यन्मानमिष्यते ॥१६॥ रसादिभिराहारविकारैः तानि प्रजाशरीराणि उपष्टभ्यमानानिमारुताभ्यां परीतानि न तथाविधानि भवन्ति प्राक् प्रथममेव । व्याधिभिरित्यादि स्पष्टम् ।
इममर्थ श्लोकाभ्यामाह-भवतश्चात्रेत्यादि। युगे युगे प्रतियुगे। तेन कृते चतुष्पाद्धर्मः त्रेतायां त्रिपाद्धर्मः द्वापरेऽर्द्ध धर्मः कलौ पादधर्मः; एवंक्रमेण धर्मपाद विनाशानुरूपेण भूतानां युगानां भूम्यादीनां मनुष्यादीनां शस्यादीनाञ्च गुणपादो हीयते । एवं कलियुगान्ते धर्मपादचतुष्टयनाशात् भूतानां गुणपादचतुष्टयक्षयादेहिनां निःशेषेणायुःक्षयाच लोको देही प्रलीयते प्रलयं याति। ___ कथं देहिनां निःशेषेणायुषः क्षयो भवतीत्यत उच्यते-संवत्सरेत्यादि। यत्र काले कृतत्रेताद्वापरकलियुगानां यस्मिन् युगे दिव्यमानेन नरमानेन वा यद्वर्षमानं युगानां देहिनामायुपश्च यदयन्मानमिप्यते तस्य तरय युगस्य तत्तत्परिमितानां संवत्सराणां शते शतकृतो विभक्तानामेकैकभागे सम्पूर्णे जाते तदयुगोत्पन्नानां देहिनां तत्तत्परिमितस्यायुष एकेकः संवत्सरः क्षयं याति। इत्येवं कलियुगावसाने देहिनामायुयो निःशेषेण परिमाणक्षयात् सर्वलोकः प्राणी प्रलीयते। एवं पुनःपुनश्चतयुगावसाने सर्वप्राणिप्रलयात् लोकः परमात्मलोकपर्यन्तः सव्वा लोकः प्रलीयते शक्तिब्रह्ममात्रमवशिष्यते। तद यथा। कृतयुगस्य मानं स्वभावसिद्धं दिव्यसंवत्सराणामष्टशताधिक
संवत्सरशते पूर्ण इति संवत्सरेण शततमेऽशे पूर्ण। यत्र यन्मानमिष्यत इति यत्र युगे यन्मानमिष्यते, तत्र शततमेऽशे पूर्ण वर्ष एकः क्षयं याति । तेन कलौ शतवर्षायुरिति । यदा शततमोऽशो याति क्षयम्, तदा नवनवति परमायुर्भवतीत्याद्यनुसरणीयम् ॥ १५॥१६॥
* उपष्टभ्यमानान्यग्निमारुतपरीतानीत्यपरः पाठः।
For Private and Personal Use Only