________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः विमानस्थानम्।
१४५१ चतुःसहस्रम्। देहिनामायुपश्च कालस्वभावसिद्धं नरमानेन संवत्सराणां चतुःशतम्। तत्र कृतयुगस्य संवत्सराणां दिव्यानामष्टशताधिकचतुःसहसमानस्य शतकृलो विभक्तस्यैकैकभागोऽष्टचत्वारिंशद्दिव्याः संवत्सरा भवन्ति। तदेकैकभागे सम्पूर्ण देहिनां चतुःशतसंवत्सरमितस्यायुषः संवत्सरः क्षयं याति । तेन तद्भागशते सम्पूर्ण देहिनां कृतयुगोत्पन्नानामायुपः संवत्सरशतं क्षयं याति इत्येवं कृतयुगावसाने। अथ प्रवर्त्तमानायां त्रेतायां धर्मपादक्षयात् कालस्वभावाच कृतयुगमानस्य पादक्षयो भवति । त्रेतायुगमानञ्च दिव्यपशिच्छतवर्ष भवति। भूम्यादीनां गुणपादक्षयश्च भवति, तेनायुषः शतवपक्षये देहिनाश्च त्रेतायुगोत्पन्नानामायुषः प्रमाणं त्रिशतवर्ष भवति । तत्रापि क्रमेण धर्मक्षयात् त्रेतायुगमानस्य दिव्यषट्त्रिंशच्छतस्य संवत्सरस्य शतकृखो विभक्तस्यैकैको भागः खलु दिव्यसंवत्सरपत्रिंशद्भवति। तत्रैकैकस्मिन् भागे दिव्यषट्त्रिंशत्संवत्सरे पूर्णे जाते त्रेतायुगोत्पन्नानां तेषां देहिनां त्रिशतवर्षस्यायुषः एकैकसंवत्सरः क्षयं यातीत्येवं शतभागे पूर्णे संवत्सरशतमायुषः क्षयं याति त्रेतावसाने। अथ प्रवर्त्तमाने द्वापर द्विपादधर्मक्षयात् कालस्वभावाच त्रेतायुगमानस्य दिव्यपत्रिशच्छतवर्षस्य पादक्षयो भवति। ततो द्वापरयुगमानश्च दिव्यचतुःशताधिकद्विसहस्रवर्ष भवति भूम्यादिगुणपादक्षयश्च भवति तेनायुषः शतवर्षक्षये देहिनाञ्च द्वापरयुगोत्पन्नानामायुषः प्रमाणं द्विशतवर्ष भवति । तत्रापि धर्मस्य क्रमशः क्षयात् कालस्वभावात् द्वापरयुगमानस्य दिव्यचतुर्विंशतिशतवर्षस्य शतकृतो 'विभक्तस्यैकैको भागः खलु दिव्यचतुर्विंशतिसंवत्सरो भवति। तदैकैकस्मिन् भागे दिव्यचतुर्विंशतिसंवत्सरे पूर्णे जाते तेषां द्वापरयुगोत्पन्नानां देहिनां द्विशतसंवत्सरस्यायुष एकैकसंवत्सरः क्षयं याति, इत्येवं शतभागे पूर्णे द्वापरयुगस्यावसाने देहिनामायुषः संवत्सरशतं क्षयं याति । ततः प्रवर्तमाने कलियुगे धम्मस्य पादत्रयक्षयात् कालस्वभावात् कृतयुगमानस्य त्रिपादक्षये द्वापरस्यार्द्धक्षयाद् द्वादशदिव्यवर्षेशतं कलियुगस्य मानं भवति। भूम्यादिगुणपादत्रयक्षयश्च भवति, देहिनामायुषश्च त्रिपादक्षये कलियुगोत्पन्नानामायुपः प्रमाणं वर्षशतं भवति। तत्रापि धर्मपादस्य क्रमेण क्षयात् कालस्वभावाच कलियुगमानस्य दिव्यद्वादशवर्षशतस्य शतकृत्वो विभक्तस्यैकैको भागो' द्वादश दिव्यसंवत्सरा भवन्ति। तस्मिन् एकैकस्मिन् भागे दिव्यद्वादशसंवत्सरे पूणे सति कलियुगोत्पन्नानां देहिनामायुषः शतवर्षस्यैकैकसंवत्सरः क्षयं याति, इत्येवं शतभागे पूर्णे कलियुगं संपूर्ण भवति ।
For Private and Personal Use Only