SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः विमानस्थानम्। १४४६ भ्रश्यति तु कृतयुगे केषाञ्चिदत्यादानात् साम्पन्निकानां शरीरगौरवमासीत्। सत्त्वानां गौरवात् श्रमः, श्रमादालस्यम्, आलस्यात् सञ्चयः, सञ्चयात् परिग्रहः, परिग्रहाल्लोभः प्रादुरासीत् कृते। ततस्त्रेतायान्तु लोभादभिद्रोहोऽभिद्रोहादनृतवचनम् अनृतवचनात् कामक्रोधमानद्वषपारुष्याभिघात-भयतापशोकचिन्तोद्व गादयः प्रवृत्ताः। ततस्त्रेतायां धर्मपादोऽन्तर्धानमगमत्। तस्यान्तर्धानाद युगवर्षप्रमाणस्य पादहासः, पृथिव्यादेगुणपादप्रणाशोऽभूत्। तत्प्रणाशकृतश्च शस्यानां स्नेहवैमल्यरसवीर्यविपाकप्रभावगुणपादभ्रंशः। ततस्तानि प्रजाशरीराणि हीनगुणपादीयमानगुणैश्चाहारविकारैश्यथापूर्वमुपष्टभ्यमानाग्नि___ गङ्गाधरः-ननु कदा पुनरधर्मः कदा चाशुभमासीदित्यत आह-भ्रश्यति इत्यादि। कृतयुगे तु भ्रश्यति कियत्कालात्यये केषाञ्चित् पुंसां न सर्वेषाम् । अत्यादानेन साम्पनिका भूखा केचिद देहगौरवमापुः। सत्त्वानां देहरूपद्रव्याणां सञ्चयो धनानामालस्याददानात् परिग्रहः सर्वभावेण ग्रहणम् कृतयुगे गते गमनमात्रे ततः कृतयुगगमनानन्तरं त्रेतायां प्रवृत्तायां सत्याम् । अभिद्रोहो जिघांसा। ततस्त्रेतायाः प्रवर्तनादनन्तरं सम्यक्पटत्तायां त्रेतायां धम्मपादो धर्मस्य चतुर्थांशः। तेन चाधम्मस्य पादप्रवर्तनमभूत् ततस्तु तस्य धर्मपादस्यान्तर्धानात कृतयुगस्य तावद्वषप्रमाणस्य पादहासः पत्रिंशच्छतदिव्यवर्षमानमभूत् गुणानां रसादीनां पादस्य प्रणाशः। तस्य पृथिव्यादिगुणपादस्य प्रणाशेन कृतः। ततः शस्यानां स्नेहवैमल्यरसादिभ्रंशाच्चानन्तरं हीनगुणपादैः शस्यैः सुतरां तदयोनिकैराहारविकारैीयमानगुणैरयथापूर्व पूर्व कृतयुगे यथा सम्पूर्ण व्यासेन-“पुरुषाः सर्वसिद्धाश्च चतुर्वर्षशतायुषः। कृते' इति । साम्पन्निकानामीश्वराणाम् । कृत इति कृतयुगस्य शेषे। __ हीयमानगुगैश्चेति, यया यथा त्रेतायाः क्षयो भवति, तथा तथा आहारविहारगुणपादहासो भवन्नाम्त इति दशयति । विहारों हि धर्मवद्वीनगुणो भवति, तेन न यथावत् शरीरोपष्टम्भन करोति । उपष्टभ्यमानानाति धानुसाम्येन पाल्यमानानि । १८२ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy