SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोढध्वंसनीयविमानम् १४४८ चरक-संहिता। जनपदोध्वंसनीयविमानम् आदिकाले ह्यदितिसुतसमौजसोऽतिविमलविपुलप्रभावाः प्रत्यक्षदेवदेवर्षिधर्मयज्ञविधिविधानाः शैलसारसंहतस्थिरशरीराः प्रसन्नवणे न्द्रियाः पवनसमबलजवपराक्रमाः चारुस्फिचोऽभिरूपप्रमाणाकृतिप्रसादोपचयवन्तः सत्यार्जवानृशंस्यदानदमनियमतप-उपवासब्रह्मचर्य्यव्रतपरा व्यपगतभयरागद्वषमोहलोभक्रोधशोकमानरोगनिद्रातन्द्राश्रमलमालस्यपरिग्रहाश्च पुरुषा बभूवुः अमितायुषः। तेषामुदारसत्त्वगुणे कर्मणां धर्माणामचिन्त्यत्वात् ® रसवीय्यविपाकप्रभावगुणसमुदितानि प्रादुर्बभूवुः शस्यानि सर्वगुणसमुदितत्वात् पृथिव्यादीनां कृतयुगस्यादौ ॥१५॥ गङ्गाधरः-ननु कदा कथं किमशुभमधज्जिातमित्यत आह-आदिकाले इत्यादि। हि यस्मादादिकाले कृतयुगेऽष्टचखारिंशच्छतदिव्यवर्षमाने कालस्वभावादधाभावाददितिसुताः शक्रादयो देवास्तत्समौजांसि येषां ते तथा। शैलः शैलेन्द्रः हिमवान् तस्येव सारस्वकसारादिभिरष्टभिः संहतं दृढ़ीभूतं स्थिरं शरीरं येषां ते तथा। कथमीदृशा इत्यत आह -सत्येत्यादि। आनृशंस्यं लोकानामनिन्दा, परिग्रहः प्रतिग्रहः। एवंभूतखात् पुरुषाः कृतयुगे बभूवुः अमितायुषः। ननु तेषां कस्मादमितायुष्ट्पमित्यत आह-तेषामित्यादि। तेषामुदारसत्त्वगुणे कम्मधर्मयोरचिन्त्यखात् पृथिव्यादीनां सर्वगुणसमुदितखात् रसवीयादिसमुदितानि शस्यांनि बभूवुः । कृतयुगस्यादौ एतेन तादृशसत्त्वगुणेऽचिन्त्यकर्मधम्मेवत्त्वात् ताशरसवीर्यादिमत्सम्यगाहाराचामितायुष्ट्रपुरुषाणां कृतयुगे इति ख्यापितम् तदा चाधर्मो नासीत्। न च बभूव अशुभम् ॥१५॥ प्रतिनियतपुरुषाभिशापात् प्रतिनियता एव भस्मतां यान्ति स जना इत्यर्थः। आद्याविर्भावे रोगाणामधर्म एव कारणमित्याह-प्रागपि चेत्यादि ॥ १४ ॥ चक्रपाणिः- यज्ञो यज्ञदेवता । विधियज्ञविधायको वेदः, विधानं यज्ञकर्म, जवो वेगः । परिग्रहो ममता । अमितमिवातिबहुन्वेनायुर्येषां ते अमितायुषः । सत्ये हि चतुर्वर्षशतायुः । यदुक्तं भगवता * उदातयत्वगुगकर्म गायनित्यरस-इति पाठः चक्रसम्मतः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy