________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
१४४७
विमानस्थानम् । परैर्वाभिकम्यन्ते रक्षोगणादिभिर्वा। विविधभूतसंघेस्तमधर्ममन्यद वाप्यपचारान्तरमुपलभ्याभिहन्यन्ते ॥ १३॥ . . .
तथाभिशापप्रभवस्याप्यधर्म एव हेतुर्भवति। ये लुप्तधर्माणो धर्मादपेतास्ते गुरुवृद्धसिद्धर्षिपूज्यानवमत्याहितान्याचरन्ति । ततस्ताः प्रजा गुर्वादिभिरभिशप्ता भस्मतामुपयान्ति। प्रागप्यभूदनेकपुरुषकुलविनाशाय। नियतप्रत्ययोपलम्भान्नियताश्च परेऽनियतप्रत्ययोपलम्भादनियताश्च परे। प्रागपि चाधाहते नाशुभोत्पत्तिरन्यतोऽभूत् ॥ १४ ॥
रक्षोगणादिभिरित्यन्तश्छेदः। भूतसंधैर्विविधैः कर्तृ भिर्वा । अन्यद्वेति अशुच्यादि भावादिकं भूतोन्मादोक्तकारणमिति भूताभिघातेऽप्यधासत्कर्मणोयोनिः प्रशापराधो हेतुः॥१३॥
गङ्गाधरः-एवमभिशापस्याप्याह-तथेत्यादि। अत्रापि अधर्मस्य मूलम् असत्कर्म पूर्वकृतं तयोयोनिः प्रज्ञापराध एवेति बोध्यम्, ते जनपदाः लुप्तधर्माण इति धर्मादनिप्रत्ययो बाहुल्यात् । अकृतधाः धर्मादपेता धम्मण त्यक्ताः। अभिशापेन प्राक्कालेऽपि पुरुषाणां कुलक्षये पुरागृत्तिमाह-प्रागेवेत्यादि। प्राक् अतः पूर्वकालमेवानेकपुरुषाणां कुलविनाशाय। नियताश्च परे केचित् नियतप्रत्ययेनोपलम्भात्। नियतकालायषः कारणोपलब्धस्तत्र जीवन्ति। अपरे केचिच्चानियतप्रत्ययोपलम्भादनियतायुषः कारणोपलब्धेम्रि यन्ते। ननु किं धम्मेस्यान्तर्दानं देवतानां प्रजात्यागः वाय्वादीनां वैगुण्यं शस्त्रादिप्रभवश्व रक्षोगणादिभूतानामभिघातः गुरुद्धसिद्धादीनामभिशापाश्चेति सव्वमेवाधर्मादुपजायते किमन्यस्मादपि किमधुनैव न च पूर्वकालञ्चेत्यत आह–प्रागपीत्यादि ॥१४॥
आत्मनः स्वजनस्य परस्य चोपघातो भवति प्राय इत्यर्थः। राक्षसायत्सादोऽपि जनानामधर्मकृत एव भवतीत्याह-रक्षोगणेत्यादि। अन्यद्वत्यधर्मकारणमशौचादीत्यर्थः ॥ १३ ॥
चक्रपाणिः-प्रागेवेति झटिति, अनेकपुरुषकुलविनाशायाभिशप्ता भस्मतां यान्तीत्यर्थः । नियतप्रत्ययोपलम्भादनियताश्चापरे भस्मतां यान्तीति योजना। अनियता अनिमिसा इत्यर्थः ।
For Private and Personal Use Only