________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। जनपदोद्ध्वंसनीयविमानम् ततस्तेऽन्तर्हितधर्माणो देवताभिरपि त्यज्यन्ते। तेषां तथाविधान्तर्हितधर्माणामधभप्रधानानामएकान्तदेवतानाम् ऋतवो व्यापद्यन्ते। तेनापो यथाकालं देवो वर्षति न वा वर्षति विकृतं वा वर्षति, वाता न सम्यगभिवान्ति, क्षितिर्वापद्यते, सलिलान्युपशुष्यन्ति, ओषधयः स्वभावं परिहायापद्यन्ते विकृति, तत उध्वंसन्ते जनपदाः स्पर्शाभ्यवहार्य्यदोषात् ॥ १२॥
तथा शस्त्रप्रभवस्यापि जनपदोदध्वंसस्याधर्म एव हेतुर्भवति। येऽतिप्रवृद्धलोभरोषमानास्ते , दुर्चलानवमत्यात्मस्वजनपरोपघाताय शस्त्रेण परस्परमभिकामन्ति, परान् वाभिकामन्ति,
प्रसभं हठात् धर्ममन्तद्धत्ते धर्ममन्तापयति, ततोऽधर्मात् ते जनपदा अन्तर्हितधर्माणः। तेषां जनपदानामन्तर्हितधर्मवादधर्मप्रधानखात् अपक्रान्तदेवताकखाच्च ऋतवो व्यापद्यन्ते। तेन ऋतुव्यापादेन धर्मान्तर्धानेनाधम्मस्य प्राधान्येन प्रजानां देवतात्यागेन च देवो जलानां देव इन्द्रादिरपो न यथाकालं वर्षति। स्पर्शाभ्यवहार्यदोषादिति ऋतोः स्पर्शदोषात् जलादेः स्पर्शाभ्यवहारदोषात् वातस्य क्षितेश्व स्पर्शदोषात् :ओषधीनां स्पर्शाभ्यवहारदोषात् ॥१२॥
गङ्गाधरः-एवं वातादीनां वैगुण्यमुक्त्वा युद्धादिपत्तितोऽपि जनपदोदध्वंसनं दर्शयति-तथेत्यादि। शस्त्राणां प्रभवनमस्मात् स शस्त्रप्रभवस्तत्र अयथावत् शस्त्रचारणप्रवृत्तिहेतुशरीरप्रवर्तनस्याप्यधर्म एव हेतुस्तस्याधर्मस्य मूलश्चासत् कम्मै पूर्वकृतं तयोयोनिः प्रज्ञापराध एवेति। प्रज्ञापराधासत्कर्माधर्मतोऽतिप्रद्धलोभादयस्ते दुर्बलानवमत्य अवज्ञाय परैर्वा भिक्रम्यन्ते
स्पृश्यस्य व्यजनादेरभ्यवहार्य्यस्य च कृत्स्नस्य दुष्टत्वात्। एतच्च प्राधान्येन ज्ञेयम्। तेन, दृष्टपषनगन्धदोषेऽपि ज्ञेयम्, असात्म्यगन्धोऽपि दृष्टवात उक्तः ॥ ११ ॥ १२ ॥
चक्रपाणिः-शस्त्रप्रभवस्यापीति बहुजनमारकशस्त्रप्रभवस्येत्यर्थः । आत्मस्वजनपरोपघातायेति
* अतिप्रवृद्धलोभरोषमोहमाना इति पाठान्तरम् ।
For Private and Personal Use Only