________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
विमानस्थानम्। वाय्वादिषु यथोक्तानां दोषाणान्तु विशेषवित् । प्रतिकारस्य सौकय्ये विद्याल्लाघवलक्षणम् ॥ चतुर्बपि तु दुष्टेषु कालान्तेषु यदा नराः। भेषजेनोपपाद्यन्ते न भवन्तातुरास्तदा ॥ येषां न मृत्युसामान्यं सामान्यं न च कर्मणाम् । कर्म पञ्चविधं तेषां भेषजं परमुच्यते ॥
पश्चाल्लिङ्गविपरिणामेनान्वेतव्यम्। नन्वेवंरूपेण वातादेरुत्तरोत्तरतो गौरववचनेन किं प्रयोजनमित्यत आह-वाघादिष्वित्यादि। प्रतिकारस्य सौकय्ये सुकरत्वे गुरुलाघवलक्षणं विद्यात् । हेतुलाघवलक्षणविद्धि सुकरतया प्रतिकत्तुं क्षमः स्यादिति भावः। कालान्तेषु वायूदकदेशकालेषु। ननु केन भेषजेनोपपाद्यन्ते इत्यत आह--येषामित्यादि। मृत्युसामान्यं मृत्युजनकदैवसाम्यम्। ननु मृत्युसामान्यं केन ज्ञायते इत्यत आह-सामान्यं न च कर्मणामिति। कम्प्रेणामिति दैवजनकसदसत्कर्मणां न तु पानाशनासनशयनजागरणविण्मत्रोत्सर्जनादिकानाम्, तेनापि च विधिनाविधिनासदसद्रूपखेऽपि कर्मलेन ग्रहणं बोध्यं ; कर्म पञ्चविधं स्नेहस्वेदपूर्वकवमनविरेचना
भवति, तद्वपतिरेकेणावस्थातुमशक्यत्वात्। देशोऽपि यदि देशान्तरगमनेन परिहत्तुं युज्यते, कालस्तु सर्वथा त्यक्तुमशक्य इति सर्वेष्वेव गरीयान् । गरीयः परमिति पाठे, यद्यतः परम्, तत् ततो गरीयो विद्यादिति योजना। एतद्विपर्यये लाववमाह-- वाय्वादिष्वित्यादि। प्रतीकारस्य सौकर्य इति यथोक्तविधया वातादिपरित्यागस्य सुकरत्वेनेत्यर्थः । येषां न मृत्युसामान्यमिति न मृत्युजनकदेवसाम्यं येषामस्तीत्यर्थः। सामान्यं न च कर्मणामिति न च मारककर्मसामान्यं येषामस्तीत्यर्थः । केचिद्धि सम्भूयैव जन्मान्तरे ग्रामदाहादि कुर्वते स्म, तत्कर्मबलात् संहतमृत्यव एव भवन्ति । किंवा, पृथगपि मारकं कर्म कृतं केषाञ्चिदेककालं विपच्य. मानं भवति। तेऽपि समकालमृत्ययो भवन्ति। तत्र 'न मृत्युसामान्यम्', इत्यनेन नोत्पन्नरिष्टत्वादेव केचित् साध्या इति दर्शयति, 'न कर्मसामान्यम्' इत्यनेन केचिच्चाजातरिष्टा अपि नियतमारककर्मवशादसाध्या भवन्तीति दर्शयति । किंवा, 'न मृत्युसामान्यम्' इत्यनेन मारकव्याधिः साधारण उच्यते । 'न कर्मसामा यम्' इत्यनेन च मारकच्याधिजनक कामाच्यते ।
For Private and Personal Use Only