________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४४
चरक-संहिता। जनपदोदध्वंसनीयविमानम् रसायनानां विधिवच्चोपयोगः प्रशस्यते। शस्यते देहवृत्तिश्च भेषजैः पूर्वमुद्धृतः ॥ सत्यं भूते दया दानं बलयो देवतार्चनम् । सदवृत्तस्यानुवृत्तिश्च प्रशमो गुप्तिरात्मनः॥ हितं जनपदानाञ्च शिवानामुपसेवनम् । सेवनं ब्रह्मचर्य्यस्य तथैव ब्रह्मचारिणाम् ॥ संकथा धर्मशास्त्राणां महर्षीणां जितात्मनाम् । धार्मिकैः सात्त्विकैर्नित्यं सहास्या वृद्धसम्मतः॥ इत्येतद भेषजं प्रोक्तमायुषः परिपालनम् । येषामनियतो मृत्युस्तस्मिन् काले सुदारुणे॥१०॥
स्थापनानुवासनशिरोविरेचनानीति पञ्चविधम्। ननु तादृशविगुणवाग्वादिके समये कभसामान्येनानुमितमृत्युसामान्यमस्ति येषां तेषां किं भेषजेन नोपपत्तिर्भवतीत्यत आह-रसायनानामित्यादि। देहवृत्तिभोजनादिना यापनम् । भेषजैः पूर्वमुद्धतैः, भूमेविरसीभावात् पूर्वमुद्धतैः शालिप्रभृतिकानम्पादियोनिद्रव्यैस्तथा वनजलतागुल्मादिकरोषधिद्रव्यैश्च । वलयः पूजोपहाराः। सद्वृत्तस्य इन्द्रियोपक्रमोक्तस्यानुत्तिरुपसेवनम्, प्रशमः शान्तरसाश्रयणम्, आत्मनो गुप्तिर्देशान्तरे गमनं, शिवानां मङ्गलकराणां स्वस्त्ययनद्धसिद्धादिजनपदानां सङ्गादीनामुपसेवनमेतत् सर्व जनपदानामुदध्वंसने हितं भवति । संकथा सम्यग् व्याख्यया परस्परमालापः। सहास्या सामुपवेशनं वृद्धसम्मतै छानामपि मान्यैः सहास्या। केषामायुषः परिपालनमित्येतत् भेषजं प्रोक्तमित्यत आह-येषामित्यादि। देवपुरुषकारयोर्दैवस्य पुरुषकारस्य वा प्राधान्याद् येषां पुरुषाणाम् । तस्मिन् विगुणवाय्वादिके सुदारुणे काले येषां मृत्युन नियतोऽस्ति तेषामायुषः परिपालनमित्येतद् भेषजं प्रोक्तमित्यर्थः॥१०॥
पूर्वमुद्धृतैरिति व्यापत्तेः पूर्व गृहीतैः। गुप्तिमन्त्रादिना रक्षा। अनियत इति वचनेन दुबलकारब्धोऽपि मृत्युः पार्यंत एवैवं प्रतिकर्तुमिति दर्शयति ॥ १०॥
For Private and Personal Use Only