________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५ अध्यायः
विमानस्थानम् ।
१४२६
भवति चात्र। मात्रयाप्यभ्यवहृतं पथ्यश्चान्नं न जीर्यति ।
चिन्ताशोकभयक्रोध-दुःखमोहप्रजागरैः ॥७॥ तं द्विविधमामप्रदोषमाचनते भिषजो विसूचिकामलसञ्च । तत्र विसूचिकामूर्द्धश्चाधश्च प्रवृत्तामदोषां यथोक्तरूपां विद्यात् । अलसकमुपदेक्ष्यामः। दुर्बलस्याल्याग्नेर्बहुश्लेष्मणो वातमूत्रपुरीषवेगविधारिणः स्थिरगुरुबहरुक्षशीतशुष्कानसेविनः तदन्नपानमनिलप्रपीड़ितं श्लेष्मणा च विबद्धमार्गमतिमात्रप्रलीनम् अलसत्वान्न वहिर्मुखि भवति। ततश्छर्दप्रतीसार
गङ्गाधरः-तदेवार्थ श्लोकेनाह-भवति चात्रेत्यादि। मात्रयापीत्यपिशब्दादमात्रया वा। पथ्यञ्चेति चकारेणापथ्यम्। तेनातिमात्रयाभ्यवहृतं पथ्यं न जीर्यति मात्रया चाभ्यवहतमपथ्यमुक्तगुरुरुक्षादिकं न जीयंति, पथ्यमप्यन्नमभ्यवहतं चिन्ताशोकादिभिर्न जीय्येति । तमतिमात्राहारजं मात्रया च गुरुरुक्षाद्याहारजं चिन्तादिभिरजीर्णीभूतपथ्यान्नजञ्च ॥ ७॥
गङ्गाधरः-तं द्विविधमित्यादि। तमामप्रदोषम्। प्रवृत्त आममन्नं दोष यत्र तां तथा। यथोक्तरूपां तत्र वातः शूलानाहाङ्गमद्देत्यादिभिरुक्तत्रिदोषलिङ्गां विमूचिकां वायुना सूचीभिरिव तोदवती भवतीति विचिकासंज्ञां विद्यात्। सुश्रुते हि विसूचिकासंज्ञार्थ उक्तः-सूचीभिरिव गात्राणि तुदन सन्तिष्ठतेऽनिलः । यस्याजीर्णेन सा वैदैर्विसूचीति निगद्यते ॥ इति । तदन्नपान स्थिरगुळदिकमन्नपानम् अनिलप्रपीड़ितं विबद्धौ मागौं यस्य तत् तथा श्लेष्प्रणा बद्धमार्गखात्। अतिमात्रप्रलीनखाच्चालसत्वं तस्माच न वहिम्मुखि प्रदोषः, आममेव प्रदूषयतीति अत्र कर्मकर्तृत्वे 'अच्' तेन दुष्टं भवतीत्यर्थः। किंवा, आमम् अपक्कसद दुष्टं दोषसम्पर्कात् शरीरं दूषयतीति ज्ञेयम् ॥ ६॥७॥
चक्रपाणिः-द्विविधमित्यादौ अलसक एव दण्डालसकामविषयोरवरोधः। तयोरपि हि दोषो विबद्धमार्गत्वादलसीभूतो भवति “अलसकमुपदेक्ष्यामः” इत्यादिना पुनर्विशेषहेतुः प्रायोऽभिनिवर्त्तक उच्यते, सामान्येन त्वतिमात्राहाररूप उक्त एवेति ज्ञयम्। अनिलप्रपीड़ितं श्लेष्मणा च विबद्धमार्गमिति दोषद्वयव्यापारवचनात् वातश्लेष्मणोरलसके प्राधान्यमुच्यते, पित्तन्तु सामान्य
For Private and Personal Use Only