________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२८
चरक-संहिता। त्रिविधकुक्षीयविमानम् सहसा वाप्युत्तराधराभ्यां मार्गाभ्यां प्रच्यावयन्तः पृथक पृथगिमान विकारान् अभिनिवर्तयन्त्यतिमात्रभोक्तः। तत्र वातः शुलानाहाङ्गमईमुखशोष-मूर्छाभ्रमाग्निवैषम्यसिराकुश्चनसंस्तम्भनानि करोति, पित्तं पुनवरातिसारान्तीहतृष्णामदभ्रमप्रलपनानि, श्लेष्मा तु च्छरोचकाविपाकशीतज्वरालस्यगात्रगौरवाणि ॥ ५ - न खलु केवलमतिमात्रमेवाहारराशिमामप्रदोषकारणमिच्छन्ति। अपि तु खलु गुरुरुनशीतशुष्क विष्टम्भिविदाह्यशुचिविरुद्धानाम् अकाले नपानानामुपसेवनम्, कामक्रोधलोभमोहेाही कमानोव गभयोपतप्तमनसा वा यदन्नपानमुपयुज्यते तदप्याममेव प्रदूषयति ॥६॥ सहसा वापीत्यपिशब्दात् क्रमेण वा उत्तराधराभ्यां मार्गाभ्यां मुखगुदाभ्यां पच्यावयन्तः पृथक् पृथक् दोषा अतिभोक्तुः पुरुषस्य, इमान् वक्ष्यमाणान् । ननु को दोषः कं विकारमभिनिवर्तयतीत्यत आह-तत्रेत्यादि। तत्र त्रिषु दोषेषु मध्ये करोतीत्यस्य परत्रापि द्वाभ्यामन्वयः॥५॥
गङ्गाधरः-ननु केवलमेवातिमात्राहारेणामप्रदोषो जन्यते किमथान्यैरपीत्यत आह--न खल्वित्यादि। आमप्रदोषेति आममभ्यवहतमपक्वं तेन कुतः प्रदोष इत्यामप्रदोषः। तदप्याममेवान्नपानं कत्तु प्रदूषयतीति, अनेनातिमात्राहारं विनापि मात्रावदाहारजातमपि गुरुरुक्षादिरूपं वा कामक्रोधादुरपतप्तमनसा वोपयुक्तं पथ्यमपि न जीर्ण भूखा आममेव सत् प्रदूषयति देह मित्याख्यातम् ॥६॥ विकाराणामिति करणे सौहित्ययोगात् षष्ठी। द्रवस्तृप्तिं 'भूयः पदविशेषणात् अतितृप्तिम् इत्यः । आमाशयगता इत्यनेन अग्निसहायसमानस्यैव वायोः कोपो भवति, न पक्वाशयगतस्य इति दर्शयति । कुक्ष्येकदेशमन्नाश्रिताः सह दूषितेनाहारेणेत्यर्थः ॥ ॥५॥
चक्रपाणि:-अतिमात्राशनजन्यत्वेनामप्रदोषे वक्तव्ये अन्यतश्च यत आमप्रदोषो भवति तमाहन खल्वित्यादि। कामादिभिर्मनस उपघातः प्रभावादेवान्नं दृषयति । एवमशु च्य प्यन्नम् अशुचित्वेन ज्ञातं मनस उपघातकस्वादामदूषकं भवति। आमस्यापकस्याहारस्य प्रदोषः आम* इतः परं द्विष्टेति चक्रः पठति ।
For Private and Personal Use Only