________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
विमानस्थानम्।
१४२७ सुखेन परिणमनम्, बलवर्णोपचयकरत्वञ्चेति मात्रावतो लक्षणमाहारस्य भवति ॥३॥ . .
अमात्रावत्त्वं पुन िविधमाचक्षते हीनमधिकञ्चेति । तत्र हीनमात्रमाहारराशिं बलवर्णोपचयनयकरम् अतृप्तिकरमुदावर्तकरम् अनायुष्यमवृष्यमनौजस्य मनोबुद्धीन्द्रियोप-. घातकरं * सारविधमनमलक्ष्म्यावहम् अशीतेश्च वातजानां विकाराणामायतनमाचक्षते ॥४॥ ___ अतिमात्रं पुनः सर्वदोषप्रकोपणमिच्छन्ति कुशलाः। यो हि मूर्तानामाहारजातानां सौहित्यं गत्वा द्रवस्तृप्तिमापद्यते, भूयस्तस्यामाशयगता वातपित्तश्लेष्माणोऽभ्यवहारेणातिमात्रेणातिप्रपीडामानाः सर्वे युगपत् प्रकोपमापद्यन्ते। ते प्रकुपितास्तमेवाहारराशिम् अपरिणतमाविश्य कुक्ष्येकदेशमाश्रिताः विष्टम्भयन्तः व्याख्यानं वा सुखानुवृत्तिन तु क्लेशः परिणमनं विण्मत्रोत्सर्गानुमेय आहारस्य परिपाकः॥३॥
गङ्गाधरः-अमात्रावत्वं व्याख्यातुमाह-अमात्रेत्यादि । सारविधमनं वक्ष्यमाणाष्टविधसारस्य समस्तस्य व्यस्तस्य वा विधमनं हासकरम्, अलक्ष्म्यावर लक्ष्म्या अनावहम् ॥४॥
गङ्गाधरः-अतिमात्रमित्याहारराशिमित्यनुवर्तमानेनान्वितम्। अतिमात्राया लक्षणमाह-यो हीत्यादि। सौहित्यमुदरपरिपूर्णतां तृप्तिमभ्यवहारायानिच्छां सर्वदोषप्रकोपणमिति यदुक्तं तद् विवृणोति-भूयस्तस्येत्यादि । ते अतिमात्राहारपपीड़िता वातपित्तश्लेष्माणः सञ्चरणायावकाशांशाभावात कुक्षेरेकदेशमाविश्य तमेवातिमात्र भुक्तमाहारराशिमपरिणतमपक्वं विष्टम्भयन्तः कृते यदि सायं सुखेन परिणमनं तथा स्थानासनादिषु सुखानुवृत्तिर्भवति, तदा मात्रावद् भोजनं कृतमिति ज्ञेयम् ॥ १-३॥ चक्रपाणि:-सारविधमनमिति रोगभिषगजितीये वक्ष्यमाणत्वकसारादिविधमनम्। आहार* शरीरमनोबुद्धीन्द्रियोपघातकरमिति चक्रः ।
For Private and Personal Use Only