________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२६
चरक-संहिता। त्रिविधकुक्षीयविमानम् मात्रावत्त्वादेव आहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यम् । प्रकृत्यादीनाम् अष्टानामाहारविधिविशेषायतनानां प्रविभक्तफलकत्वात्। तत्रायं तावदाहारराशिमधिकृत्य मात्रामात्राफलविनिश्चयार्थः प्रकृतः। एतावानेव ह्याहारराशिविधिविकल्पो यावन्मात्रावत्त्वम् अमात्रावत्त्वञ्च ॥२॥
तत्र मात्रावत्वं पूर्वमुदिष्टं कुत्यशविभागेन, तद भूयो विस्तरेणानुव्याख्यास्यामः। तद् यथा--कुक्षरप्रपीड़नम् आहारण, हृदयस्यानवरोधः, पार्श्वयोरविपाटनम्, नातिगौरवम् उदरस्य, प्रीणनमिन्द्रियाणाम्, क्षुत्पिपासोपरमः, स्थानासनशयनगमनोच्छास-*-हास्यसंकथासु सुखानुवृत्तिः, सायं प्रातश्च
इत्याकाङ्क्षायामाह-न चेत्यादि । विभक्तफलखात् विभिन्नफलखात् न त्वेकैकशः सर्वफलखात्। तत्र प्रकृत्यादिष्वष्टस्वाहारविधिविशेषायतनेषु मध्ये आहारस्य राशिमधिकृत्य मात्रामात्रयोः शुभाशुभफलविनिश्चयार्थोऽयं त्रिविधकुक्षीयावकाशंशस्थापनोपदेशः। प्रकृतः करणारम्भः प्रशब्दस्यारम्भार्थकखात्। ननु राशिः सव्र्वग्रहपरिग्रहावुक्तः कथं मात्रामात्रा चात्रोच्यते, इत्यत आह.. एतावानेव इत्यादि। हि यस्मादाहारस्य राशिरूपविधैर्विकल्प एतावानेव मात्रावत्त्वम् अमात्रावत्त्वञ्चेति न खधिकः ॥२॥
गङ्गाधरः-- तत्रत्यादि। तन्मात्रावत्त्वम् अप्रपीड़नमाहारंण कुक्षिपीड़नाभावः। स्थानं स्थिनिरासनमुपवेशनं शयनं स्पष्टं संकथा संलापः सम्यगबहु
इत्यर्थः। तदेव स्फारयति---न चेत्यादि । सौष्ठवं सुषुत्वं भाद्रक्यमित्यर्थः। विभक्त.फलस्वादिति विभिन्नफलत्वात्। कुक्ष्यंशविभागेनेति “एकमवकाशांशं मूर्तानाम्" इत्यादिना । उहिष्टमिति सङ्क्षपकथितम्। सायं प्रातश्चेति वचनात् सायं भोजने कृते यदि प्रातः, प्रातश्च
* प्रश्वामेत्यधिकः पाठः क्वचित् ।
For Private and Personal Use Only