________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः। अथातस्त्रिविधकुनीयं विमानं व्याख्यास्यामः, इतिह
___ स्माह भगवानात्रेयः॥१॥ त्रिविधं कुनो स्थापयेदवकाशांशमाहारस्याहारमुपयुञ्जानः। तद यथा--एकमवकाशांशं मूर्तानामाहारविकाराणामेकं द्रवाणामेकं पुनर्वातपित्तश्लेष्मणाम् । एतावती ह्याहारमात्रामुपयुञ्जानो नामाबाहारजं किञ्चिदशुभं प्राप्नोति। न च केवलं
गङ्गाधरः-अथाहारविधिविधाने मात्रावदश्नीयादिति यदुक्तं, तदाहारमात्रामानविज्ञानार्थ त्रिविधकुक्षीयं विमानमारभते-अथात इत्यादि। अध्यायादौ त्रिविधं कुक्षौ स्थापयेदित्या दिवाक्यार्थमधिकृत्य त्रिविधकुक्षीयोऽध्यायः कृतः॥१॥ - गङ्गाधरः त्रिविधमित्यादि। कुक्षौ आमाशयेऽवकाशांशमाहारस्य सम्बन्ः त्रिविधं स्थापयेत् कल्पयेदाहारमुपयुञ्जानः पुरुषः। नन्वाहारस्य त्रिविध कुक्ष्यवकाशांशं कुतः स्थापयेदित्यत आह -तद् यथेत्यादि। मूर्तानामिति कठिनानां, द्रवाणामिति दध्यादीनाम् । वातादिसञ्चरणायैकमवकाशांशस्थापन प्रयोजनं बोध्यम्। ननु मात्रावदाहारमात्रेणैव किमाहारफलसौष्ठवं भवति,
चक्रपाणिः-रसविमाने राशिरुक्तस्तस्य राशेर्मात्रावत्वामात्रावत्त्वस्य । फलप्रपञ्चदोषविकारप्रपञ्च दर्शयितु त्रिविधकुक्षीयोऽभिधीयते । त्रिविधमिति त्रिप्रकारम् । अवकाशांशमिति कोष्ठावकाशभागम् । आहारस्येत्याहारनिमित्तमित्यर्थः। तेन, द्वाववकाशावाहारस्य वक्तव्यो, एकस्तु दोषाणामिति त्रिविधं वक्ष्यमाणम्। उक्तं दोषावकाशस्थानं हि आहारोपकारकत्वादाहारस्येत्युच्यते, दोषावकाशस्थाने हि आहारः दोषैर्दू ष्यत इति वक्तव्यम्। किंवा, आहारस्यावकाशांशमामाशयरूपं कुलो वक्ष्यमागविभागेन विविधं स्थापयेदित्यर्थः। कुक्ष्यंशभागं यथा कर्त्तव्यमाह-तद् यथेत्यादि। मूर्तानामित्याश्यखाद्यानाम्, द्रवाणामिति लेह्यपेयानाम् । इह चांशशब्दो न समविभागे वर्तते, किन्तु यथोचितविभागे। तेन मूर्तानां बहुभागो भवतीति ज्ञेयम्। वातपित्तश्लेष्मणां यद्यपि भिन्नानि स्थानानि, तदपि मूर्तीहारादिभागापेक्षया मिलितानां किञ्चित् स्थानं भवतीत्येकत्वेनाध्यारो यात्र “एकम्” इति कृतम्। ननु कुक्ष्यंशविभागेन कृतेऽप्याहारे प्रकृतिगुर्वादिष्टद्रव्यजदोषो दृश्यत इत्याह-नामात्राहारजमिति । प्रकृत्यादिदोषकृतन्तु प्राप्नोत्येव
१७९
For Private and Personal Use Only