________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२४ चरक-संहिता।
[ रसविमानम् आहारायतनान्यष्टो भोज्यसागु ण्यमेव च। विमाने रससंख्याते सर्वमेतत् प्रकाशितम् ॥ २४ ॥
इत्यग्निवेशकृत तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने
रसविमानं नाम प्रथमोऽध्यायः॥१॥
आहारायतनान्यष्टौ उक्तानि । तत्रेदमित्यारभ्य यावदन्तं भोज्यसादगुण्यमुक्तम् । रससंख्याते रसाख्ये विमाने रसविमाने इत्यर्थः ॥२४॥
अध्यायं समापयति-अग्नीत्यादि।
इति श्रीगङ्गाधरकविरत्रकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे रसविमानजल्याख्या
प्रथमशाखा ॥१॥
संक्षेपेणोक्तावेव। तेन, दोषविकारप्रभावावप्युक्ताविति यदुच्यते, तत् साधु। तैलादिद्रव्यत्रयकथनञ्च द्रव्यप्रभाव इति कृत्वा न संग्रहे पठितम् ॥ २३॥२४॥
इति चरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान
व्याख्यायां रसविमानं नाम प्रथमोऽध्यायः ॥ १॥
For Private and Personal Use Only