________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] विमानस्थानम् ।
१४२३ नोपशेते इत्येवं विदितं ह्यस्यात्मन आत्मसात्मा भवति । तस्मादात्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति ॥ २२॥ ..
___ भवति चात्र। रसान् द्रवाणि दोषांश्च विकारांश्च प्रभावतः। वेद यो देशकालौ च शरीरश्च स ना ७ भिषक् ॥ २३ ॥
तत्र श्लोको। विमानार्थो रसदवा-दोषरोगाः प्रभावतः। द्रवाणि नातिसेवानि त्रिविधं सात्मामेव च ॥
नोपशेते इति विदितमाहारजातं भुञ्जानस्यास्य पुंसस्तदाहारजातम् आत्मनः स्थूलदेहिनो यथायथं शरीरसत्त्वात्मनामात्मसात्मा स्वस्थसात्मं स्वेन स्वेन सहात्मतां सरूपतामितं भवति। इति आहारस्य विधिभिर्विधानस्य दोषभेषजादिमानवाने हेतुलात् यथासम्भवं विमानलं बोध्यम्। इति ॥२२॥
गङ्गाधरः-अथ रसद्रव्यदोषविकाराणां प्रभावशानं प्रशंसति-भवतीत्यादि ॥२३॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-विमानार्थ इत्यादि। विमानार्थ इति इह खल्विस्यारभ्याग्निवेशेत्यन्तेन विमानार्थ उक्तः। तत्रत्याहारस्य त्रीणीत्यस्मात् प्राक् रसद्रव्यदोषरोगाः प्रभावत उक्ताः। नातिसेव्यानि त्रीणि द्रव्याणि। अथ त्रीणीत्यारभ्योक्तानि ततस्तस्मात् तेषामित्यारभ्य सात्म्यमित्यन्तेन त्रिविध सात्म्यमुक्तं सर्वरसमपि चेत्यारभ्य तत्रेदमित्यस्मात् पूर्वम्
चक्रपाणिः-नोपशेत इतीत्यत्र 'इति'शब्देन सात्म्यासात्म्यविधानोपदर्शकेन विचारफलम् ओकसात्म्यसेवनं दर्शयति। आत्मन इतिपदेनात्मनैवात्मसात्म्यं प्रतिपुरुपं ज्ञायते, न शाखोपदेशेनेति दर्शयति ॥ २२॥
चक्रपाणि:---अध्यायोक्तरसप्रभावादिज्ञानं स्तौति--रसानित्यादि। स नो भिगिति नोऽस्माकं सम्मत इत्यर्थः। दोषविकारौ च यद्यपि त्रिविधकुक्षीये प्रभावविस्तारेण वक्तन्यौ तथापीह
* स नः इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only