________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२२
चरक-संहिता। : रसविमानम् . . नातिविलम्बितमश्नीयात्। अतिविलम्बितं हि भुञ्जानो न तृप्तिमधिगच्छति बह भुङ्क्ते शीतीभवत्याहारजातं विषमपाकञ्च भवति । तस्मान्नातिविलम्बितमश्नीयात् ॥ २०॥
अजल्पन्नहसन् तन्मना भुञ्जीत। जल्पतो हसतोऽन्यमनसो वा भुञ्जानस्य त एव हि दोषा भवन्ति, य एवातिद्रुतमश्नतः। तस्मादजल्पन्नहसंस्तन्मना भुञ्जीत ॥ २१ ॥
आत्मानमभिसमीक्ष्य भुञ्जीत सम्यक् । इदं ममोपशेते इदं
सादगुण्यमनिष्टभावरूपं नियतं नोपलभ्यते तदुपलब्थ्यनियमेन। असत्पकमाहारजातं भुक्तं मन्दरसगन्धादिजन्यरोगान् जनयतीति भावः। नातिद्रुतं भुञ्जानस्य भुक्तं यथावत् स्नेहयति स्वदते यथावदाशये च प्रतितिष्ठते ॥१९॥ - गङ्गाधरः-नातिविलम्बितमश्नीयादिति। कालप्रकर्षात् किञ्चित् पक्तुमारभ्यते किञ्चिदाशयमापद्यते एवं विधमपाकवं स्यात् । नातिविलम्बितं भुञ्जानन्तु तृप्तिमधिगच्छति न बहु भुङ्क्ते न च शीतीभवत्याहारजातं समपाकञ्च भवति ॥२०॥
गङ्गाधरः-अजल्पन्नित्यादि। य एवातिद्रुतमश्नतो जल्पतो भुञ्जानस्य हसतो भुञ्जानस्य च अतन्मनसो भुञ्जानस्य चापि तत्स्नेहनास्वादनभोजनस्याप्रतिष्ठानं न च नियता भोज्यदोषसादगुण्योपलब्धिरित्येते ये दोषास्त एव हि भवन्ति ॥२१॥
गङ्गाधरः-आत्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति। इदं ममोपशेते इदं
प्रवेशः, भोज्यगतानां दोषाणां केशादीनां सादगुण्यस्य च स्वादुत्वादेरुपलब्धिर्न नियता भवति कदाचिदुपलभ्यते कदाचिनेति । तत्र दोषानुपलब्ध्या सदोषस्यैव भक्षणं, सादगुण्यानुपलब्ध्या च प्रीत्यभावः। विषमञ्च पच्यत इति चिरकालभोजनेनाग्निसम्बन्धस्य वैषम्यादिति भावः । ये हि इतमश्नतो दोषा इति उत्स्नेहनादयः ॥ १९-२१॥
For Private and Personal Use Only