________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४३०
चरक संहिता। विविधकुक्षीयविमानम् वर्जान्यामप्रदोषलिङ्गानि * अभिसंदर्शयत्यतिमात्राणि । अतिमात्रप्रदुष्टाश्च दोषाः प्रदुष्टामबद्धमार्गास्तिर्यग् गच्छन्तः कदाचिदेव केवलमस्य शरीरं दण्डवत् स्तम्भयन्ति, अतस्तमलसकमसाध्यं ब्रवते। विरुद्धाध्यशनाजीर्णाशनशीलिनः पुनरेवं दोषम् अर्द्ध मधो वा मार्ग न प्रवर्तते। इत्यतोऽलसकसंज्ञा । उक्त ह्यन्यत्र-पीड़ित मारुतेनान्नं श्लेष्मणा रुद्धमन्तरा। अलसं क्षोभितं दोषैः शल्यत्वेनैव संस्थितम् । शूलादीन् कुरुते तीव्रान् छतीसारवर्जितानिति। तन्त्रान्तरेऽपि-प्रयाति नोर्द्ध नाधस्तानाहारोऽपि विपच्यते। आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः, इति। अलसकलक्षणान्याह-तत्र इत्यादि। तत्र वातः शूलानाहाङ्गमद्देत्यादिनोक्तामप्रदोषलिङ्गानि तत्र कफलिङ्ग छईि पित्तलिङ्गमतीसार वजयित्वा शेषाणि लिङ्गानि विमूच्यपेक्षयाऽतिमात्राणि दर्शयत्यलसकः सुश्रुतेऽप्युक्तं-कुक्षिरानह्यतेऽत्यर्थं प्रताम्यति च कूजति। निरुद्धो कुक्षावुपरि धावति। वातवचौनिरोधश्च यस्यात्यर्थं भवेदपि। तस्यालसकमाचष्टे हिकोदगारौ च यस्य तु ॥ इत्यलसकमुक्त्वा अलसकात् तीवशूलादिमत्त्वात् भेदमादायालसकतुल्यलक्षणामतीव्रशूलादिमत्त्वात् विलम्बिकापि अतिरिक्तवोक्ता। तद यथा-दुष्टन्तु भुक्तं कफमारुताभ्यां प्रवत्तते नोर्द्ध मधश्च यस्य। विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः। यत्रस्थमाम विरुजेत् तमेव देशं विशेषेण विकारजातैः। दोषेण येनावततं शरीरं तल्लक्षणैरामसमुदभवैश्च ॥ इति। तन्त्रे खस्मिन् शूलादीनां तीव्रखातीव्रखयोदोषबलापेक्षखान ताभ्यां व्याध्यन्तरं विलम्बिकेति मनसि कृखा नोक्ता विलम्बिका। सा चालसकस्यैव नामान्तरमिति बोध्यम् ।
अथालसकस्यासाध्यवमाह-अतिमात्रेत्यादि । केवल कृत्स्नम्। अपरम् असाध्यत्वमाह-विरुद्धाध्यशनेत्यादि। एवं दोषमतिपदुष्टप्रदुष्टामविबद्धमार्ग
वचनसिद्धमप्रधानम् अस्त्येव तृष्णामदभ्रमादिलिङ्गमिति ज्ञेयम्। प्रदुष्टामबद्धमार्गा इत्यत्रापक्काहारोऽन्नरसो वा अपक्क आम उच्यते। केवलं कृत्स्नम् । विरुद्वाध्यशनाजीर्णाशनमिति-विरुद्धाशनम्, अध्यशनम्, अजीर्णाशनञ्च, अजीर्णस्यापक्कस्याशनमजीर्णाशनम्, अजीर्णे भोजनस्याध्यशनशब्देन
• यथोक्तानीत्यधिकः पाठः कचित् ।
For Private and Personal Use Only