SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ रसविमानम् १४१६ चरक-संहिता। कालो हि नित्यगश्चावस्थिकश्च। तत्रावस्थिको विकारम् अपेक्षते, नित्यगस्तु खल्वृतुसात्म्यापेक्षः। उपयोगसंस्था उपयोगनियमः, स जार्णलक्षणापेक्षः। क्रमिकं कालमाह-काल इत्यादि। नित्यगः प्रातरादिः स्वस्थस्य आवस्थिको रोगिणां कालादीनाञ्च तत्र प्रतिलोमतन्त्रयुक्त्या कालद्वयं विटणोति-तत्रेत्यादि। तत्र नित्यगावस्थिकयोमेध्ये आवस्थिकः कालः पातमध्याह्नादिस्त्रिपश्चाहादिश्च, आतुय्यं विना हि नावस्था भवति तेनातुराणां ज्वरितादीनां विकारज्वरादिकमपेक्षते। यथा नवज्वरी नाश्नीयात् । आमे तु स्तम्भनं नाचरेत् इत्यवमादिविकाराणामवस्थाविशेषापेक्षिखमावस्थिककालखमिति। संवत्सरस्य नित्यगस्यावस्थिककालस्य ज्वराद्याततावस्थासम्बन्धिनः प्रयोजनमुक्तमाहारोपयोगे। नित्यगस्य तु प्रयोजनमाह-नित्यगस्वित्यादि। नित्यगः सवत्सररूपः कालो हि स्वस्थस्यत्तुं सात्म्य यस्मिन् ऋतौ यत् सात्म्य तस्मिन् ऋतौ स्वस्थेन तदाहाय्यमित्यपेक्षा यस्य स तथा। इति सवत्सररूपकालस्याहारोपहोगे प्रयोजनमुक्तम् । __ क्रमिकखादुपयोगसंस्थामाह-उपेत्यादि। उपयोगेति प्रकरणादाहारोपयोगे नियमस्तदितराभावः। तस्य प्रयोजनमाह-स इत्यादि। स उपयोगनियमो जीणलक्षणापेक्षः, जीर्णलक्षणानि-उद्गारशुद्धिरुत्साहो वेगोत्सगर्गों यथोचितः। लघुता क्षुत् पिपासा च जीर्णाहारस्य लक्षणम् ॥ इत्यपेक्षते यः स तथा। वक्ष्यते चात्र उष्णं स्निग्धमित्यादिना, तस्माज्जीर्णऽश्नीयादिति । मरौ जातं लघु भवति इत्यादि । प्रचारेण लघुभक्ष्याणां प्राणिनां तथा धन्वप्रचारिणाञ्च बहुक्रियाणाञ्च लाघवं, विपर्यये च गौरवं गृह्यते। देशसात्म्येन व देशविपरीतगुणं सात्म्यं गृह्यते। यथाआनूपे उष्णरुक्षादि, धन्वनि तु शीतस्निग्धादि। ओकसात्म्यन्तु उपयोक्तग्रहणेन गृहीतम् । नित्यग इत्यहोरात्रादिरूपः। आवस्थिक इति रोगित्वबाल्याद्यवस्थाविशेषित इत्यर्थः । विकारमपेक्षत इति बाल्यादिकृतन्तु श्लेष्मादिविकारं ज्वरादिकञ्चाहारनियमार्थमपेक्षत इत्यर्थः । ऋतुसात्म्यं हि ऋत्वपेक्षितमिति ऋतुसात्म्यापेक्षः। एवमाहारोपयोगः कर्तध्य एवं न कर्त्तव्य इत्युपयोगनियमः, स जीर्णलक्षणापेक्ष इति प्राधान्येनोक्तः। तेनेह "अजल्पनातिद्वतं नातिविलम्बितम्" इत्याद्यपि उपयोगनियममपेक्षत एव, अजीर्णभोजने तु महांत्रिदोषकोपलक्षणो दोषो भवतीत्ययमेवोदाहृतः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy