SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः विमानस्थानम् । १४१७ उपयोक्ता पुनर्यस्तमाहारमुपयुङ्क्ते, यदायत्तमोकसात्माम् । इत्यष्टावाहारविधिविशेषायतनानि भवन्ति । एषां विशेषाः शुभाशुभफलाः परस्परोपकारका भवन्ति, तान् बुभुत्सेत, बुद्धा च क्रमिकमुपयोक्तारमाह-उपयोक्तेत्यादि। यः पुरुषस्तमाहारं प्रवरसात्म्यमुत्पाद्य प्रकृत्याभिगम्य द्रव्याणि पुरुषप्रकृत्यग्निबलाद्यनुरूपेण करणेन तत्पुरुषप्रकृत्यनुरूपमुत्पाद्य संयोगेन विरुद्धाविरुद्धत्वं विचार्य राशिना परिमाय मात्रां देशेन द्रव्याणामुत्पत्तिप्रचारदेशसात्म्यान्यनुगम्य कालेनावस्थिकेनावस्था विचार्य तदनुरूपमण्डादिकमुपकल्प्य नित्यगेन तु ग्रीष्मादिसमुचितत्वेनाभिसमीक्ष्य उपयोगसंस्थया जीर्णाजीणलक्षणमभिसमीक्ष्य यस्य यदुचिततया युज्यते तस्य तत्तव्यं योग्यतया विकल्पितमाहारमुपयुङ्क्ते स उपयोक्ता । ननु तस्य किं प्रयोजनमाहारोपयोगे इत्यत आह-यदायत्तमित्यादि। ओकसात्म्यं यस्य यदुचिततया सहात्मना युज्यते तदोकसात्म्यं, तत् तु यो विचारयति तस्वायत्तं तदिति प्रकृत्यादीनामष्टानां व्याख्यानमुपसंहरति इत्यष्टावित्यादि। नन्वेषां प्रकृत्यादीनां व्यस्तानां किमाहारोपयोगित्वं किमथ समस्तानाम् ? फलश्च किं शुभमेव न चाशुभमित्यत आह-एषामित्यादि। एषां प्रकृत्यादीनामष्टानाम् आहारविधिविशेषकारणानां विशेषाः प्रकृत्यायन्यतमानां स्वाभाविकगुर्नादिगुणादीनां शुभाशुभानां शुभञ्चाशुभञ्च फलं स्वजन्यं येषां ते तथा, पुरुषाणां देहानिदोषरोगबलप्रकृत्याद्यनुरूपेण गुरुलाघवादिमुत्पाद्य प्रयोगात् शुभं फलं स्वास्थ्यारोग्यलक्षणं जनयन्ति। अन्यथा लशुभमातुयं जनयन्तीत्यतो न केवलं शुभफलाः,न वा व्यस्ताः शुभाशुभफलाः परन्तु परस्परोपकारकाः परस्परं प्रकृतिः करणस्य करणश्च प्रकृतरित्येवमादि परस्परोकारं कुर्वन्तीति तान् प्रकृत्यादीनां विशेषान प्रकृतेविशेषान गुरुलाघवादीनां प्रत्येकं करणस्य विशेषान् तोयाग्न्यादिप्रत्येकेन गुणविशेषान नानारूपान। संयोगस्य विशेषान् मधुसर्पिषोः संयोग इत्येवमादि विरुद्धं तदितरम् अविरुद्धमित्येवमादीन् । राशेविशेषान शरावप्रस्थादिकान। देशस्य विशेषान जागलानूपसाधारणो यदायत्तमोकसात्म्पमिति भोक्तपुरुषापेक्षं ह्यभ्याससान्म्यं भवति। कस्यचिद्धि किञ्चिदेवाभ्यासात पथ्यमपथ्यं वा सात्म्यं भवति । एषामित्यादौ शुभफला विशेषा अशुभफलाश्च परस्परोपकारका भवन्तीति २७८ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy