SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४१४ चरक-संहिता। रसविमानम् ___संयोगस्तु पुनई योर्बहूनां वा द्रवाणां संहतीभावः। स विशेषमारभते, यं पुनर्नककद्रवाण्यारभन्ते। तद् यथा--मधु. सर्पियोर्मधुमत्स्यज्यसाञ्च संयोगः। राशिस्तु सर्वग्रहपरिग्रही मात्रामात्राफलविनिश्चयार्थः। क्रमिक संयोगमाह संयोगरिखत्यादि। द्रव्याणामित्यनेन समवायेनापि द्रव्यगुणानां संहतत्वं स्यात तद्वारणम् न स संयोगः। विशेपं विकृणोति-- ‘यमित्यादि । उदाहरणान्याह तद् यथेत्यादि । मधुसर्पिपोः सयोगस्तु विषवद् गुणकर्माण्यारभते तानि च न मधु न वा सर्पिरारभते एवं मधुमत्स्यादीनां संयोग इत्यादि व्याख्यातव्यम् । एवं सर्वत्रापि यथायथं बोध्यम् । ___ क्रमिक राशिमाह - राशिस्वित्यादि। द्विवचनात सव्वग्रहपरिग्रही राशिन तु राशी. सव्वग्रहश्च राशिः परिग्रहश्य राशििित नार्थः । स च किमर्थः प्रक्रियते इत्यत आह-मात्रेत्यादि। मात्रा चामात्रा च तयोः फलस्य प्रयोजनस्य, विनिश्चयोऽर्थः प्रयोजनं चरमफलं यस्य स तथा। संस्काराधेयेन गुणेन कथं स्वाभाविकगुणनाशः क्रियताम्, यतः 'स्वभावो निष्प्रतिक्रियः” इत्युक्तम् । यदि संस्कारेण स्वाभाविकगुणत्वं प्रतिक्रियते, तदा “स्वभावो निष्प्रतिक्रियः” इति कथं ? ब्रमः ;"स्वभावो निष्प्रतिक्रियः' इति स्वभावो भावोत्पत्तौ नान्यथा क्रियते। तेन जातिसम्बम्धं माषादीनां गुरुत्वं न जातौ स्फोटयितुं पार्य्यते, संस्कारेण तु तदन्यथाकरणमनुमतमेव दृष्टत्वात् । कश्चित् तु गुणो द्रव्याणां संस्कारादिनापि नान्यथा क्रियते, यथा-वह्न रोष्यं वायोश्चलत्वं तैलस्य स्नेह इत्यादि। एते हि यावदव्यभाविन एव गुणाः । गौरवादयस्तु पुराणधान्यादिप्वप्यपगमदर्शनान्न यावद्र्व्यभाविनः। उक्त हि “गुणो द्रव्यविनाशाद्वा विनाशमुपगच्छति । गुणान्तरोपघाताद वा" इति। यत्र तु संस्कारेण बीहेर्लाजलक्षणं द्रव्यान्तरमेव जन्यते, तत्र गुणान्तरोत्पादः सुष्टुव । . संयोगमाह-संयोगस्वित्यादि। स विशेषमारभत इति संयुज्यमानद्रव्यैकदेशेऽदृष्टं कार्यमारभत इत्यर्थः। यन्नैकैकश इति यं विशेष प्रत्येकमसंयुज्यमानानि द्रव्याणि नारभन्त इत्यर्थः ;-मधुसर्पिपी हि प्रत्येकममारके, मिलिते तु मारके भवतः, क्षीरमत्स्यादिसंयोगश्च कुष्ठादिकरो भवति। संयोगस्त्विह प्राधान्येनैवोपलभ्यमानदध्यमेलको विवक्षितः । तेन भावनादिष्वपि यद्यपि संयोगोऽस्ति, तथापि तत्र भावनाद्रव्याणां प्राधान्येनानुपलब्धेन संयोगेन ग्रहणम् । राशिः प्रमाणम्। मात्रामात्राफलनिश्चयार्थ इति मात्रावदाहारस्यौषधस्य च यत् For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy