________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४१२ चरक-संहिता
रसविमानम् तत्र प्रकृतिरुच्यते स्वभावो यः, स पुनराहारोषधद्रव्याणां स्वाभाविको गुर्वादिगुणयोगः। तद् यथा-माषमुद्गयोः शूकरैणयोश्च। क णं पुनः स्वा विकद्वारणामभिसंस्कारः। संस्कारो हि गुणाधानमुच्यते। ते गुणास्तोयाग्निसन्निकर्षशौचमन्थनदेश
गङ्गाधरः-तत्राष्टम् प्रकृत्यादिपु मध्ये स्वभावो य इति यो भावो याद्रूप्येण भवति स स्वः तस्य तादूप्यण भवनं भाव इति स्वभावः। ननु किं ताप्यं विना तत्र भवनमात्रं स्वधावः किमथ तादृप्यञ्च तद्भवनश्च स्वभाव इत्यत आह-स पुनः इत्यादि। स च स्वधावः पुनराहाराणामोपधानाश्च द्रव्याणां स्वाभाविकः स्वभावात् स्व यैव तदसाभरणभवनाज्जातो गुवादिगुणयोगः । समुदायत्वेऽपूर्वे ये गुदियोऽसाधारणा गुणा आनुलोमिकादीनि च यानि कर्माणि युज्यन्ते यत् स गुट दिगुणयोग इति । तत्तदसाधारणं भवनं प्रभावः स्वभावो मुख्यस्तज्जास्तु कर्मगुणाश्च तद्वस्तुनिष्ठाः स्वभावा इष्यन्ते। तद्वस्तुना तु क्रियन्ते तैः कम्मेगुणः स्वभावैर्यानि विरेचनदहनादीनि काणि तानि कत्तव्यस्य निष्ठानि न तस्य वस्तुनः स्वभावा इति, तत् तद्वस्तुनः काय्यस्थकर्मवारणाय योग इति पदम्। गुणशब्दोऽत्र निश्चेष्टकारणानां गुणीभूतानां गुादीनाम् आनुलोमिकादीनाञ्च कर्मणां वाचक इति बोध्यम्। उदाहरणमाह-तद यथेत्यादि। माषमुद्गयोरिति यथा ब्रीगुरोलेघवो लाजा इति गुर्वादिलघ्वादि-यथास्वगुणयोग इत्यर्थः । एवं शूकरैणयोरित्यत्रापि बोध्यम् । प्रकृतिम् उक्त्वा करणमाह-करणं पुनरित्यादि। स्वाभाविकानां स्वभाव सिद्धगुणानां न तु कृत्रिमाणां तेषां पुनःसंस्काराद् यद् गुणान्तराधानं कथितकृतासवादिषु भवति तदपि स्वाभाविकद्रव्याव्यतिरिक्तानामेवेति न दोषः। गुणाधानमिति ये गुणा न स्वाभाविकारतेषां योग आधानमित्युत्तरकालं गुणयोगः करणम् । गुणानामाधानमाह-ते गुणाश्चेत्यादि। तोयादिव्यस्तसमस्तानां वशेन यथासम्भवं बोध्यम्। तोयसन्निकर्षवशेन कठिनखरादिगुणवतां द्रव्याणां
चक्रपाणिः-आहारस्य विधिः प्रकारो विधानं वा इत्याहारविधिः, तस्य विशेषो हितत्वमहितत्वञ्च, तस्यायतनानि हेतून् इत्याहारविधिविशेषायतनानि, आहारप्रकारस्य हितत्वमहितत्वञ्च प्रकृत्यादिहेतुफमित्यर्थः। उपयोक्ता अष्टमो येषां तान्युपयोक्त ष्टमानि। उक्तानि प्रकृत्यादोनि विभजते - तत्रेत्यादिना। स्वाभाविक इति संस्कारायकृतः । माषमुद्योरिति प्रकृत्या माषे गुरुत्वं, मुद्ग लघुत्वं, शूकरे गुरुत्वं, एणे च लघुत्वम् । द्रव्याणामिति वक्तव्ये स्वाभाविकानामिति यत् करोति,
For Private and Personal Use Only