________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम् ।
१४११ प्रवरावरमध्यस्थम्। तत्रावरमध्याभ्यां सात्म्याभ्यां सेविताभ्यां क्रमणव प्रवरमुपपादयेत् सात्म्यम्। सर्वरसमपि द्रव्यं सात्म्यम् उपएन्नं ६ सर्वाण्याहारविधिविशेषायतनानि अभिसमीक्ष्य हितमेवानुमध्येत ॥८॥ ___ तत्र खल्विमान्यष्टावाहारविधिविशेषायतनानि भवन्ति । तद् यथा--प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्तष्टमानि भवन्ति ॥ ६ ॥ रससात्म्यं प्रवरम्, एकैकरससात्म्यमवरं, मध्यन्तु द्वित्रिचतुःपञ्चरससात्म्यम् । प्रवरावरमध्यस्थं मध्यमसात्म्यं तचाष्टमं नाशङ्कज मिश्रखात्। सर्वरसमिश्रत्वे सप्तमत्वं पटवानतिरिक्तत्वेऽपि प्रवरार्थ सप्तमोपदेशः। नन्वेवमस्तु कथं सात्म्यीकुर्यादित्यत आह तत्रावरमध्याभ्यामित्यादि। क्रमेणेति यस्य यो रसो नोपशेते स च तं रसं पूर्वमल्पाल्पमुपसेवेत। तस्य रसस्य सात्म्यीभावे सत्यपरो रसः सात्म्यीकार्य, क्रमेण तस्मिन् सात्म्यीभूतेऽप्यपरः, इत्येवं द्विवादिषु मध्येषु रसेषु सात्म्योभूतेषु प्रवरं पड़ रसं सात्म्यीकुर्यात् । एवं द्वौ रसो त्रयो वा रसाश्चखारो वा पञ्च वा रसाः क्रमेण सात्म्यीकार्याः, ततः सवरससात्म्यं कुान्। नन्वेवमेव सवरसे सात्म्यीभूते किं शुभमुत्पद्यत एवाहारजं न खशुभमित्यत आह-सवेरसमपीत्यादि। आहारविधिविशेषायतनसाकल्यानुसारेणाभ्यवहृतं सर्चरससात्म्यं हितमेवानुरुध्येत न तु अहितमन्यथात्वे हितमेवानुरुध्येत ॥८॥
गङ्गाधरः तानि सण्यिाहारविधिविशेषायतनानि विकृणोति--- तत्रेत्यादि। इमानि अत ऊर्द्ध वक्ष्यमाणानि आहारविधेर्विशेषस्यायतनानि कारणानि । प्रकृतीत्यादि। उपयोक्ता चासौ अष्टमश्चेत्युपयोऋष्टमः। प्रकृतिश्चेत्यादिद्वन्द्वः॥९॥ इति द्विरसादिपञ्चरसपर्यन्तम् । अवरमध्यमाभ्यां लक्षितः पुरुषः । प्रवरमिति सर्व्वरसम्, सात्म्यम् उपपादयेदभ्यस्येदित्यर्थः। क्रमेणेति यथोक्ताभ्यासक्रमेण। उपपादितसर्वरससात्म्येनापि चाहारः प्रशस्तप्रकृत्यादिसम्पन्नः कर्त्तव्य इत्याह -सर्वरसमित्यादि। अभिसमीक्ष्येति हिताहितत्वेन विचार्य। हितमेवेति पदेन यदेव प्रकृत्यादिना हितम्, तदेवानुरुध्येत सेवेतेत्यर्थः ॥८॥
* प्रकृत्यादुरपयोक्रप्टमानि इत्यधिकः पाठो दृश्यते क्वचित् ।
For Private and Personal Use Only