________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०६ चरक-संहिता।
रसयिमानम् तैणात् कषायत्वाच्च, श्लेष्मा हि स्निग्धो मन्दो मधुरश्चेति विपरीतगुणः। यच्चान्यदपि किञ्चिद् द्रव्यमेवं वातपित्तकफेभ्यो गुणतो विपरीतं स्यात् तच्चैतान् जयत्यभ्यस्यमानम् ॥ ४ ॥
अथ खलु त्रीणि द्रव्याणि नाभ्युपयुञ्जीताधिकमन्येभ्यो मधु चेत्यादि। रौक्ष्यादिकस्तु मधुनः प्रभावः। स्निग्धादिकस्तु इलेष्मदोषस्य प्रभाव इति उलेप्पगुणेभ्यो विपरीतगुणं मधु। शीतं गुरु मधुरञ्चेति उलेप्रसमानमपि पुरातनं चेद् भवति तदातितीक्ष्णरौक्ष्यकपायत्वेनाल्पं गुरुत्वशीतवमाधुर्यमादधत् भूयसा रौक्ष्यादिनाल्पं स्वगुरुवादिकम् अवजित्य श्लेष्मगुरुवादिक न वर्द्धयति। तस्मात् मधु च श्लेष्माणं जयतीति मधुप्रभावः श्लेष्मदोपप्रभावश्चोपदिष्टो भवति ।
अथ तैलादिद्रव्यत्रयप्रभावान दोपत्रयप्रभावांश्च दर्शयिता यावदद्रव्यप्रभावमुपदर्शनार्थमुपसंहरनि यच्चान्यदित्यादि। एतेन विकाराणाम् अपरिसङ्घ प्रयत्वेन सर्वत्र शारीरव्याधिषु निजागन्तुषु पूर्वोत्तरकालो दोषाणामव्यभिचारेण सम्बन्धात् तदात्मकत्वेन संगृह्य दोषप्रभावोपदेशेनैव सर्चविकारप्रभावोऽपुत्रपदिष्टो भवतीति बोध्यम् ॥४॥ _गङ्गाधरः सिद्रव्यदोषविकारप्रभावानुपदिश्य द्रव्यप्रभावप्रसङ्गात् प्रभावोपदर्शनार्थ केपाश्चिद् द्रव्याणामतिमात्रोपयोगे दोषमाह द्रव्याणां समुदायप्रभावोपदेशप्रसङ्गेन- अथेत्यादि। अधिकमिति क्रियाविशेषणं. तेन सततमित्यर्थी
भवति । सर्पिपि च यद्यपि मधुरो रसः पित्तप्रशमे व्याप्रियते, तथापि माधुर्यशैत्यमन्दत्वैः पित्तशमनं सर्पिःकार्य्यमेव, तेन द्रव्यप्रभाव एव वाच्यः। यदा तु रसद्वारा कार्य द्रव्यस्य चिन्त्यते, तदा रसप्रभाव इति व्यपदेशो भवति । एवं कपायानुरसे मधुनि समाधानं वाच्यम् । अन्ये तु ब्रवते--यत् तैलादीनां वातादिशमनत्वं प्रत्यचिन्त्य एव प्रभावोऽयमुच्यते, तत्र च तैलवातयोविरुद्धगुणयोर्मेलके तैलमेव वातं जयति, न तु वातस्तैलमिति तैलस्याचिन्त्यप्रभावः । एवं सर्पिर्मधुनोरपि पित्तश्लेष्महरणे प्रभावाज ज्ञेये। एतच्चान्ये नेच्छन्ति। यतस्तैलादीनां "सततमभ्यस्यमानम्” इति पदेनाधिक्यमेव वातादिजयकारणमुक्तम्, तथा, “यच्चान्यदपि किञ्चिद् द्रव्यम्" इत्यादिग्रन्थेन द्रव्याचिन्त्यप्रभावं परित्यज्य सामान्येन गुणवैपरीत्यमेवाभ्यासात् वातादिजयहेतुरुच्यते ॥ ४॥
चक्रपाणिः- अभ्यस्य द्रव्यं प्रभावोदाहरणार्थमभिधायानभ्यस्यानाह- अश्रेत्यादि। अधिकम्
For Private and Personal Use Only