________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१म अध्यायः
विमानस्थानम् ।
१४०७
द्रव्येभ्यः । तद् यथा – पिप्पलीः नारं लवणमिति । पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुव्व नात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश्च ताः सद्य एव शुभाशुभकारिण्यो भवन्ति आपात भद्राः प्रयोगसमसाद्द् ण्याद दोषसञ्चयानुबन्धाः । सततम् उपयुज्यमाना हि गुरुप्रक्लेदित्वात् श्लेष्माणमुत्क्लेशयन्ति, औष्यात् पित्तम् । न च वातप्रशमनाय कल्पन्ते अल्पस्नेहोष्णभावात् योगवाहिन्यस्तु खलु भवन्ति, तस्मात् पिप्पलीर्नाभ्युपयुञ्जीत ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
,
नवधिक परिमितमित्यर्थः । त्रयाणां द्रव्याणामुदाहरणमाह तद् यथेत्यादि । पिप्पलीरित्यादेर्नामुपयुञ्जीतेत्यादिनानुवृत्तेनान्वयः । कटुका इत्यारभ्य दोषसञ्चयानुबन्धा इत्यन्तेन प्रभावप्रदर्शनम् । प्रयोगस्य समं साद्गुणं यस्य तत्त्वात् आपातभद्रा, दोपसञ्चयोऽनुबन्धो याभिः कस्मादाभिः किं दोषसञ्चयानुबन्धो भवतीत्यत एवं प्रभावाणां पिप्पलीनां सततोपयोगतः प्रभावमाह - सततमित्यादि । गुरुक्लेदित्वादिति गुरुत्वात् प्रक्लेदिखाच्च । औष्णात् पित्तमुत्क्लेशयन्तीत्यन्वयः । न चेत्यादि । अल्पस्नेहोष्णभावान्न च वातप्रशमनायोपकल्पन्ते इत्यन्वयः । नन्वेवञ्चेत् सततोपयोगार्थमौषधेऽपि पिप्पलीनपयुञ्जीतेत्याशङ्कायामाह - योगवाहिन्य इत्यादि । तस्मादित्यादि । अत्राधिकमन्येभ्यो द्रव्येभ्य इत्यनुसाय्र्यम् ॥ ५ ॥
अन्येभ्य इति वचनादन्यदपि चित्रकभल्लातका देवजातीयं नात्युपयोक्तव्यम्, पित्पल्यादिद्रव्यन्तु अन्येभ्योऽप्यधिकमत्युपयोगे वर्जनीयमिति दर्शयति । "कटुकाः सत्यो मधुरविपाकाः" इत्यादि पिप्पलीगुणकथनम् । अनभ्यासप्रयोगे दोषवैपरीत्येन दोपप्रशमनोपदर्शनायें तथा अत्यभ्यासाद "गुरुप्रक्के दित्वात् श्लेष्माणमुक्कु शयन्ति” इत्यादिग्रन्थवक्तव्य दोषकरणयोग्यतोपदर्शनार्थञ्च “भेषजाभिमताः" इति । सद्य इति च्छेदः, सद्य इत्यनभ्यासे शुभकारिण्यः, अत्यभ्यासप्रयोगे तु अशुभ कारिण्यः । एतदेव शुभाशुभकारित्वं दर्शयति "आपातभद्राः " इत्यादिना । प्रयोगसमसाद्गुण्यादिति समस्य प्रयोगस्य सद्गुणत्वात्, समेऽल्पकाले अल्पमात्रे च पिप्पल्याः प्रयोगे सद्गुणा भवन्तोत्यर्थः । दोषसञ्चयानुबन्धो हुरपयोगो यासां ता दोषसञ्चयानुबन्धाः । एतदेव दोषसञ्चयानुबन्धत्वं विवृणोति - सततमित्यादि । पिप्पलीधर्मकथन प्रस्तावात् गुणान्तरमाह - -योगवाहिन्यस्त्विति । योगवाहित्वेन कटुकानामपि पिप्पलोनां वृष्यप्रयोगेषु योगः, तथा ज्वरगुल्मकुष्ठ
For Private and Personal Use Only