________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम् ।
१४०५ सर्पिः खल्वेवमेव पित्तं जयति माधुर्यात् शैत्यान्मन्दवीर्य्यत्वाच्च, पित्तं ह्यमधुरमुष्णं तीक्ष्णश्च । मधु च श्लेष्माणं जयति रौक्ष्यात् सम्भवन्ति-यत्र च शैत्यं न तत्रौष्णा. यत्र गुरुत्वं न तत्र लघुत्वं,यत्र स्निग्धत्वं न तत्र रुक्षखमित्येवमादि हि दृश्यते तस्मात् यस्यैकस्य द्रव्यस्य र्यैर्गुणैर्यदपरद्रव्यस्य ये गुणा विरुध्यन्ते ते विरुद्धगुणा ये च गुणा न विरुध्यन्ते तेऽविरुद्धगुणा इति । तेषां विरुद्धाविरुद्धगुणानां सन्निपाते सम्यगकस्मिन् द्रव्ये निपतनेऽर्थात् प्रकृत्या चोत्तरकालं वा वर्तने तदन्तर्गतेन विरुद्धाविरुद्धान्यतरेण भूयसा मानतो वा संख्यया वाऽधिकतमेन गुणेनाल्पं तदन्तर्गतं विरुद्धाविरुद्धान्यतरत् संख्यया वा मानतोऽल्पं गुणात्मकं वस्तु अवजीयते इति। विरुद्धाविरुद्धगुणसन्निपाते हि भूयसाल्पमवजीयते इति पाठः साधुरिति तन्न । जैमिनिनाप्युक्तस्य विरुद्धधम्मसमवाये भूयसां स्यात् सधर्मकखमिति मूत्रस्य दर्शनेन यदि गुणानां विरुद्धत्वं यस्य द्रव्यस्य यो यः समानोऽसमानश्च गुणो यत्रापरद्रव्ये वर्तते ते समानासमाना गुणा एव तेषां गुणविरुद्धगुणास्तेषां सन्निपाते तयोर्मध्ये भूयसाल्पमवजीयते इति व्याख्यानाद विरुद्धगुणसन्निपाते हीत्येव पाठस्य साधुता। भूयसा इतीयसुना यत्किश्चित् बाहुल्ये तु जयावजयत्वं न कल्पते इति ज्ञापितं, तस्मात् तैलं सततमभ्यस्यमानं न तु कदाचिदुपसेव्यमानं वातं जयति न तु अनुरसकपायेण सौम्येण च वातं वर्द्धयति, पित्तस्य म्नेहव्वखोष्णागौरवसमानानां तैलस्य स्नेहोष्णागौरवाणाञ्च मानतः संख्यया च भूयस्त्वेन कषायमूक्ष्मखयोरवजये तैलं पित्तं वर्द्धयतीति तैलद्रव्यप्रभावः। वातस्य दोपस्य च प्रभाव उपदिष्टो भवति।
सर्पिरित्यादि। अमधुरमिति मधुरविपरीतं तिक्तं विदग्धमम्लं तीक्ष्णञ्चेति विरुद्धगुणम्। सस्नेहमपि द्रवमपि च सर्पिस्तुल्यमिति समानासमानतया विरुद्धगुणसन्निपातात् सर्पिभूयसा माधुर्यशैत्यमान्द्यगुणत्रयेण पित्तस्य। माधय्यौ ष्णातैक्ष्णाविरोधिना समानमप्यल्पं सङ्ख्यया स्वीयं स्नेहद्रवगुणद्वयमवजित्य न बर्द्धयित्वा। तस्मात् सर्पिः पित्तं जयति। इति सर्पिषः स्वप्रभावः पित्तस्य च दोषस्य प्रभाव उपदिष्टो भवति ।
सर्पिः खल्वेवमेवेति। सर्पिरपि सततमभ्यस्यमानमित्यर्थः। अमधुरमिति रौक्ष्यलाघवावृष्यत्वादिना मधुरविपरीतं कदुरसमित्यर्थः। इह च प्रभावशब्देन सामान्येन द्रव्यशक्तिरुच्यते, तेनानाचिन्त्यशक्तिः, तेन तैलादीनां स्नेहोष्ण्यादिगुणादपि वातादिशमनं द्रव्यप्रभावादेव
For Private and Personal Use Only