SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४०२ चरक-संहिता। [ रसविमानम् समुदायप्रभावतत्त्वमध्यवसातु शक्यम् । तथायुक्ते हि समुदाये समुदायप्रभावतत्त्वमेवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं गुणान्तरमारभन्ते न तु विजातीयगुणान्तरम्। यथा साधारणो रसोऽप्सु पृथिव्याञ्च भूतान्तरसंयोगेऽभिव्यज्यमानो मधुरादिरसान सजातीयानारभते । मधुरादिरसवद्रव्यारभ्यमाणे पुनरन्यस्मिन् द्रव्ये प्रकृतिसमसमवेते विकृतिविषमसमवेते वा ते मधरादयो रसाः सजातीयमेव प्रकृतिसमसमवेतं रसान्तरं विकृतिविषमसमवेतं वा रसान्तरमारभन्ते, न तु रूपान्तरं गन्धान्तरं वा विजातीयगुणान्तरम् । एवं रूपादयो गुणा व्याख्येयाः। कर्माणि तु खलूतक्षेपणावक्षेपणादीनि द्रव्यस्थानि सजातीयं कान्तरं प्रकृतिसमसमवेतमारभन्ते सर्वाणि चैकीभूय विकृतिविषमसमवेतं विजातीयमचिन्त्यं कारभन्ते यदुच्यते प्रभाव इति। विजातीयेन कर्मणा सह मिलिखा कर्म यथा विशिष्टापूर्व विजातीयकम्ाण्यारभते न तथा द्रव्याणि गुणा वा विजातीयद्रव्यान्तरेण विजातीयगुणान्तरण वा मिलिखा विजातीयं द्रव्यान्तरं गुणान्तरं वारभन्ते इति। __ नन्वेवञ्चेत् तर्हि नानारसात्मकं विकृतिविषमसमवेतं रसं नानादोषात्मकं ज्वरादिकश्चावयवेनानुमाय तत्समुदायरूपरसविकारयोः प्रभावतत्त्वम् अध्यवस्येत्। कस्मादिति ? अत आह-तथायुक्त हीत्यादि। तथा कारणविशेषाद् विकृतिविशेषेण परस्परोपघातादारम्भकप्रकृतिभूतकारणानां विकृत्या स्वकर्माननुरूपकर्मवत्तया समवायेन युक्तं रसे विकारसमुदाये एकीभूतरूपे समुदायप्रभावतत्त्वं तथाविधमिलिततयैकीभूतरूपस्यैव प्रभावतत्त्वं तत्तदननुरूपकर्माप्रभावतत्वमुपलभ्य ततोऽनन्तरं समुदायप्रभावतत्त्वोपलम्भाद् द्रव्यविकारप्रभावसमवायौ पृथगेव कुर्वन्ति, विपमसमवायस्य वैषम्यतारतम्येनातिबहुप्रपञ्चितत्वात् विषमावयवगुणानुमानं दुःशक्यमिति कृत्वा तदपि द्रव्यविकारप्रभावेणेव व्यपदिशन्ति। अथ कथं तर्हि विकृतिविषमसमवायप्रभावज्ञानमित्याह-तथायुक्त हीत्यादि । तथायुक्त समुदाय इति विकृतिविषमसमवाये। समुदायप्रभावतत्वमिति मेलकप्रभावतत्त्वम् । समते हि मधुसर्पिषी सूर्यावर्ताख्ये वा व्याधौ दोपसमुदाये न संयुज्यमानमधुधृतगुणक्रमागतं मारकत्वं, न च वातादिदोषप्रभावगतं सूर्यवृद्धया वर्द्धिष्णुत्वं किन्तु संयोगमहिमकृतमेवेत्यर्थः । यञ्च गतिद्वयं दोषरसमेलकस्य, तेन, प्रकृतिसमसमवायरूपं सन्निपातं ज्वरनिदाने दोपलिङ्गुमेलकेमैवोक्तवान् ;-यदुक्त “पृथक् लक्षणसंसर्गात् द्वान्टिकं सान्निपातिकम् ज्वरं विद्याद्" इति । यस्तु विकृसिविषमसमवेतो ज्वरस्तस्य, चिकित्सिते -"क्षणे दाहः अणे शीतम्" इत्यादिना लक्षणमुक्तम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy