________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः विमानस्थानम् ।
१४०३ व्यवस्येत् । तस्माद रसप्रभावतश्च द्रव्यप्रभावतश्च दोषप्रभावतश्च विकारप्रभावतश्च तत्त्वमुपदेच्यामः । तत्रैष रसप्रभाव उपदिष्टो
भवति ॥३॥ तत्त्वं तत्समुदायकार्यरूपद्रव्यविकारयोः प्रभावस्य स्वस्वकर्मा करवस्वभावस्य तत्त्वं याथार्थ्य व्यवस्येत् । तस्मादुक्तरूपेण विना द्रव्यविकारयोर्ज्ञानाभावात् प्रकृतिसमसमवेतद्रव्यमानज्ञानार्थ रसप्रभावतश्च विकृतिविषमसमवेतभूतारब्धद्रव्यमानज्ञानार्थन्तु द्रव्यप्रभावतश्च प्रकृतिसमसमवेतदोषारयविकारमानशानार्थ दोषप्रभावतश्च विकृतिविषमसमवेतदोषारधरोगमानज्ञानार्थ विकारप्रभावतश्च तत्त्वं द्रव्यविकारयोर्याथार्थामुपदेक्ष्याम इत्यर्थः। तत्रैष इति उक्तरूपो रसप्रभाव इति । यो रसो यत् कर्म करोति तस्य रसस्य तत्कर्मकरत्वेन प्रभावः शक्तिरुपदिष्टो भवति ॥३॥ न हि श्यावरक्तकोठोत्पत्त्यादि नत्रोक्त वातादिज्वरे क्वचिदस्ति । एवं रसेऽपि यत्राम्राते मधुरत्वं प्रकृतिसमसमवेतम्, तत्राम्रानं मधुरमेतन्मात्रमेवोक्त, तेन मधुरसामान्यगुणागतं तस्य वातहरत्वं पित्तहरत्वमपि लभ्यते। यत्र वात्तोके कटुतिक्तत्वेन वातकरत्वं प्राप्तमपि च विकृतिविषमसमवायात् तन्न भवति। तत्राचार्येण, 'वार्ताक वातघ्नम्' इत्युक्तमेव। एवमित्यादि तत्तदुद्दाहरणशास्त्रप्रसूतमनुसरणीयम् । यत् तु प्रकृतिसमसमवायकृतरसदोषगुणद्वारा प्राप्तमपि द्रव्यगुणं विकारलक्षणञ्च बने, तत प्रकर्षार्थ स्पष्टार्थञ्चति ज्ञेयम् ।
उपसंहरति तस्मादित्यादि। तत्वमिति प्रभावतत्वम् । यत् तु पूर्व "तत्रादौ रसद्रव्यदोषविकारप्रभावानुपदेक्ष्यामः” इत्यनेन रसादिप्रभावव्याख्यानप्रतिज्ञानं कृतम्, तत्र रसप्रभावानुमानेनैव द्रव्यप्रभावकथनात, नथा दोषप्रभावेण च विकारप्रभावकथनाचरितार्थम् । इह तु विकृतिविषमसमवायात्मके द्रव्ये विकारे वा रसदोषप्रभावानुमानेन न द्रव्यविकारप्रभावानुमानमम्तीति कृत्वा पृथक् पृथग रसादिप्रभावतत्वाभिधानप्रतिज्ञानमिति न पौनरुक्ताम् ; इह द्रव्याणां वीर्यप्रभावविपाकप्रभावौ च द्रव्यप्रभावे रसप्रभावे चान्तर्भावनीयौ। तत्र यो रसानुगुणौ वोर्यविपाकप्रभावो, तौ रसे, यौ तु रसक्रमोक्तवीर्यविपाकविपरीतौ वीर्यविपाको, तौ द्रव्यप्रभावौ बोद्धव्यौ। उपदेक्ष्यामो निखिलेन तन्त्रेण रसादिप्रभावतत्त्वं पृथगुपदेक्ष्याम इति रसादिप्रभावः प्रपन्चेन निखिले तन्त्र एव वक्तव्य इत्यर्थः। सङ्क्षपाभिधानमेतदेवेति दर्शयन्नाह-तत्रैष इत्यादि। एष इति “रसाः पड़" इत्यादिना “तत्त्वमुपदेक्ष्यामः” इत्यन्तेन ग्रन्नोक्त इत्यर्थः। उपदिष्टो भवतीति सङ्कपेण कथितो भवति। अन्ये तु तत्रैष रसप्रभाव उद्दिष्टो भवति' इति पठन्ति । अस्मिन् पक्षे द्रव्यदोषविकारप्रभावोऽपि योऽत्रानुद्दिष्टः सोऽपि रसद्वारा, देन, २८ सदैव प्रपञ्चाभिहितवात तस्यैव अभिधानमुपस्हरति नयादीनामिति ज्ञेयम् ॥३॥
For Private and Personal Use Only