SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः विमानस्थानम् । १४०१ गुणान्तराणि आरभन्ते कर्माणि च सजातीयानि कान्तराण्यारभन्ते विरोधीनि च। यैस्तु द्रव्योऽपरो भाव आरभ्यते तानि द्रव्याणि चेतनप्रयुक्तानि स्वस्वकर्माभिर्द शकालकारणविशेषवशेनैकीभूतैर्विजातीयरूपमापद्यमानैः संयुज्यमानानि विभज्यमानानि च पुनःपुनरावर्तमानानि कारणानुरूपद्रव्यान्तररूपेण परिणम्य कारणानुरूपगुणान्तररूपेण गुणाश्च परिणम्य स्वस्वाननुरूपविशिष्टापूर्वविजातीयाचिन्त्यरूपेण च स्वयं स्वयं परिणम्य जायमाने काय्ये समवायीनि भवन्ति सन्ति द्रव्याणि गुणांश्च समवायिनः कुर्वन्तीति विकृतिविषमसमवेतः स भावो जायते। तत्र द्रव्याणि सजातीयद्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरं सजातीयमेवारभन्ते कारणगुणपूर्वको हि कार्यगुणो भवति। काणि तु सजातीयविजातीयं विरोधि कर्म आरभन्ते। तत् तु कर्मभावाणां संहतरूपाणां प्रभाव उच्यते। इति । ननु च भो द्रव्याणि यदि विकृतिविषमसमवेतानि ज्वरादीनि गुणाश्च रसादयो विकृतिविषमसमवेताः कर्माणि च विकृतिविषमसमवेतानि प्रभावा उच्यन्ते, तहि कथं सजातीयारम्भकत्वं द्रव्यगुणयोर्न कम्मेण इति चेन्न। यतः कायद्रव्यारम्भे तत्काय॑स्य कारणानां द्रव्याणां पृथिवी पृथिव्यन्तरं मूर्ति विशेषम् आरभते न तु जलादिकम्, आपश्च शारीररसादि जलान्तरमारभन्ते, तथा तेजः शारीरतेजोऽन्तरमारभते, इत्येवं सजातीयद्रव्यान्तरमारभन्ते द्रव्याणि न तु विजातीयद्रव्यान्तरम् । तथा गुणाश्च रसादयस्तत्तद द्रव्यस्थाः सजातीय स्वरसकल्कादयः। एकस्यैव हि द्रव्यस्य विकल्पनविशेषेण गुणान्तराणि भवन्ति । दोषस्य तु दृष्यान्तराण्येव गुणान्तरयोगाद् भेदकानि भवन्ति। यदुक्त,-"स एव कुपितो दोषः समुत्थानविशेषतः। स्थानान्तरगतश्चैव विकारान् कुरुते बहून् ॥" अस्मिन् व्याख्याने रसानां दोषाणाञ्च यदुत्कर्षापकर्षकृतो विषमसमवायः पृथगुच्यते, स न युज्यते, यतः विषमसमवाये उत्कृष्टस्य रसस्य तथा दोषस्य चोत्कृष्टा गुणाः अपकृष्टस्य चापकृष्टा गुणा भवन्तीति कृत्वा अवयवप्रभावानुमानेनैव समुदायप्रभावानुमानं शक्यम्। अथोच्येत -विषममेलके रसस्य दोषस्य च न त एव गुणा उत्कृष्टा अपकृष्टा वा भवन्ति, किन्तु गुगान्तरमेव भवति। तत् तर्हि विकृत एवायं समवायो विसदृशकार्यकारणत्वात् । तदेवं दृपणदर्शनादन्यथोच्यते। यत्र द्विविधो मेलको भवति रसानां दोषाणाञ्च प्रकृत्यनुगुणः प्रकृत्यननुगुणश्च, तत्र यो मिलितानां प्रकृतिगुणानुपमर्दैन मेलको भवति, स 'प्रकृतिसमसमवाय'-शब्डेनोच्यते, यस्तु प्राकृतगुणोपमईन भवति, स विकृतिविषमसमवायोऽभिधीयते, विकृत्या हेतुभूतया विषमः प्रकृत्यननुगुणः समवायो विकृतिवियमसमवाय इत्यर्थः । विकृतिविषमसमवाये नानात्मकत्वादिहेतुत्रयं यथाविवृतमेव योजनीयम्। यत् तु विकृतिविषम १७६ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy