SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४०० चरक-संहिता। । रसविमानम् कानाम्छ, अन्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेनैव ज्वरादीनाञ्च अनर्विकल्पनैरकैकरसप्रभावकर्माविकल्पनैरेकैकदोषप्रभावविकल्पनाभ्यां भिन्नर्विकल्पनैगुणकृतगुणविकल्पनैर्विकल्पितानां• कार्यरसानां कार्यज्वरादीनामवयवप्रभावानुमानेन तदारम्भकरसाश्रयद्रव्यस्थकृतैः गुणैरवयवैस्तदारम्भकदोपस्थगुणकृतैर्गुणैश्वावयवैरनुमानेन समुदायस्य विकृतिविषमसमवेतस्य नानारसात्मकरसस्य विकृतिविपमसमवेतस्य नानादोपात्मकस्य ज्वरादेश्च प्रभावाणामारम्भकद्रव्याणां कातिरिक्तकर्मणां तत्त्वं भिषभिः अध्यवसातु शक्यं न भवतीति। सर्वं हि भावा द्विविधमारभ्यन्ते समवायिभिः कारणदंशकालकारणविशेषवशात् प्रकृतिसमसमवायेन विकृतिविषमसमवायेन च। यद्रव्यों भाव आरभ्यते तद्भावमारभमाणानि द्रव्याणि चेतनप्रयुक्तानि स्वस्वकर्माभिः परस्परं संयुज्यमानानि पुनःपुनः विभज्यमानानि खलु संयोगविभागाभ्यामावर्त्तमानानि देशकालकारणादिवशात् स्वाश्रयद्रव्यतद्गुणान स्वानि चानुरूपेण मेलयित्वैकीकृत्य प्रकृत्यैव जायमाने भावे समवायीनि कुवन्तीति प्रकृतिसमसमवेतः स भावो जायते । तत्र द्रव्याणि सजातीयानि द्रव्यान्तराण्यारभन्ते गुणाश्च सजातीयानि न त्वेवं खल सर्वति। अत्रैव हेतुमाह-न हीत्यादिना अध्यवसातु शक्यमित्यन्तेन । विकृतिविषमसमवेतानामिति विकृतिसमयेतानां तथा विषमसमवेतानाम् : समवेतानामिति मिलितानां रसानां दोषाणाञ्च। तत्र रसस्य विकृतिसमवायो यथा ; -- मधुरे तण्डुलीयके, मधुरो हि प्रकृत्या स्नेहवृष्यत्वादिकरः, तण्डुलीयक विकृतिसमवेतत्वेन तन्न करोति। विषमसमवेतास्तु तिले कपायकटुतिमधुराः। यदि हीमे रसाः अमात्रया समवेता न स्युस्ततस्तिलोऽपि पित्तश्लेष्महरस्त्रिदोपहरो वा स्यात, पित्तकफकरस्त्वयं, तेन, अत्र रसानां क्वचित् कर्तत्वमकत्तं त्वञ्च क्वचिदिति वैपम्यमुन्नीयते। “नानात्मकानाम्" इत्यादि हेतुत्रयन्तु विकृतिसमवायविषमसमवाययोरेवोपलम्भकम् ; नेन “नानात्मकत्वाद्" इत्यादिभिर्विकृतिसमवायविषमसमवायौ भवतः। नातात्मकानामिति नानारूपहेतुजनितानां, तन हेतुबलादेव रसदोपयोर्विकृती विषमा वा मेलको भवतीत्यथः । किंवा, नानात्मकानामिति नानाप्रमाणानाम् । एवञ्च नानाप्रमाणत्वं विषमसमवाये हेतुः। परस्परेण चोपहतानामित्यन्योन्यमुपधातितगुणानाम् । परस्पर गुणोपघातस्तु यद्यपि दोषाणां प्रायो नास्त्येव, तथाप्यदृष्टवशात् क्वचिद्भवतीति ज्ञेयम् , रसानान्तु प्रबलेनान्योपघातो भवत्येव । अन्यैश्च विकल्पनैरिति अन्यैश्च भेदकैः। तत्र रसस्य भेदकाः • उपहतप्रकृतिकानामित्यत्र उपहतानामिति वा पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy