________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
विमानस्थानम् ।
१३६६ तत्र खल्वनेकरसेषु द्रव्येष्वनेकदोषात्मकेषु च विकारेषु रसदोषप्रभावमेकैकश्येन अभिसमोक्ष्य ततो द्रव्यविकारयोः प्रभावतत्वं व्यवस्येत्। न त्वेवं खलु सर्वत्र। न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतप्रकृति__ननु रसदोपसन्निपातः खलु रसानां संसर्गा दोषाणाच संसर्गः, तत्र किं कारणसमानरूपेणैव कार्य कारणसमवायः स्यान कारणगुणकर्मवै पम्येण भवतीत्यत आहन त्वेवं खल सव्वत्रति। सर्वत्र रससंसर्ग सर्वत्र दोपसंसर्ग च खलु नैवमुक्तप्रकारेण व्यवस्येत् । कस्मात् ? न होत्यादि। हि यस्मात् विकृतिविपमसमवेतानां नानात्मकानां नानारसात्मकानां रसानां नानादोपालकानां ज्वरादिविकाराणां परस्परेणोपहतानां नानारसानामारम्भकागां काय्यारम्भ तदाश्रयद्रव्यस्थकम्माणि कालदेशादिवशात् प्रकृतिस्थान रसान विकृत्य परस्परेणोपहत्य तत्तदरसप्रभावतो विषमरूपेणापूर्वी विशिष्टस्वरूपण कार्यरसेषु समवायिनः कुन्तीत्येवं परस्परेणोपहतरसनानां, तथा नानादोपाणामारम्भकाणां ज्वरादिकाय्यारम्भे तत्तदोपस्थकाणि कालदेशनिदानविशेषवशाद विकृत्य प्रकृतिस्थस्वरूपं विहाय परस्परेणोपहत्य विपमकर्म रूपेणापूर्वविशिष्टस्वरूपेण परिणम्य क्रियमाणे ज्वरादौ समवायोनि भवन्तीति परस्परेणोपहतकर्मवातादिदोपजानां संसर्गाणामपि सत्यप्यवान्तरभेदे सामान्येनोपसंग्रहं कृत्वा विपष्टित्वसंख्यानियमो भविष्यतीति निरस्यते। यतः, मधुराम्लादिसंसर्गोऽपि विजातीयो मधुरतरमधुरतमादिभेदकृतभेदोऽपरिसंख्येयो भवति। वचनं हि- "रसास्तरतमाभ्यस्ताः संख्यापतिपतन्ति हि" इति।। ___ अथ कथं तर्हि रसानां संसृष्टानां दोशणाञ्च प्रभावो ज्ञेय इत्याह ;-तत्र खल्वित्यादि। तत्र चानेकरसव्यस्थानेकदापपिकारस्य च प्रत्येकरसदोषप्रभावमेलकेन प्रभाव कथयन् रससंसर्गदोपसंसर्गयोरपि तादृशमेव प्रभावं कथयति, यतः रसदोपसंसर्गप्रभावावन्न द्रव्यविकारप्रभावाश्रयित्वात् रसदोपजद्रव्यविकारप्रभावत्वेनोच्यते। अनेन न्यायेन साक्षादनुक्तोऽपि एकरसदव्यैकदोषविकारयोरपि प्रभावः संसृष्टदोपप्रभावकथनादुक्त एव ज्ञेयः। एकैकत्वेनाभिसमीक्ष्येति प्रत्येकयुक्तरसादिप्रभावेगालेकरसं द्रव्यम् अनेकदोषञ्च विकारं समुदितप्रभावमभिसमीक्ष्य ।
अयञ्च रसदोपप्रभावद्वारा द्रव्यविकारप्रभावनिश्चयो न सर्वत्र द्रव्ये विकारे चेत्याह-- • एकैकत्वेनेति द्वितीयः पाठः ।
For Private and Personal Use Only