SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १म अध्यायः विमानस्थानम् | १३६७ रसदोषसन्निपाते तु ये रसा यैर्दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति ते तानभिवर्द्धयन्ति, विपरीतगुणास्तु विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति । एतद्द्व्यवस्थाहेतोः गुणेषु कर्म्माभावात् । तस्मात् प्रभाव सामान्यविशेषाभ्यां रसा द्रव्यमाश्रिताः वातादीनां वृद्धिहासौ कुर्व्वन्तीति द्रव्याणि ते रसैः कुर्व्वन्तीत्युच्यते । द्रव्याणि हि स्वभावात् किञ्चित् कुर्व्वन्ति किञ्चित् गुणप्रभावात् किञ्चित् कर्म्म - प्रभावाच्च । प्रभावो ह्यचिन्त्य उक्तः । स खलु भावानामुत्पत्तिकाले तद्भावारम्भकद्रव्यसंयोगे तद्रव्यनिष्टकर्मभिर्यद्विजातीयं कम्मरभ्यते तदचिन्त्यं कर्म्म, तस्य कार्यस्य द्रव्यस्य गुणस्य कर्म्मणो वा प्रभाव उच्यते सा शक्तिने तु कम्मतिरिक्तेति । Acharya Shri Kailassagarsuri Gyanmandir इति पृथग् रसदोपप्रभावानुक्त्वा संसृरसदोषप्रभावान् वक्ति-रसदोषसन्निपाते खित्यादि । रससन्निपाते दोपसन्निपाते च । रसानां पण्णामन्यतम द्वित्रिचतुःपञ्चानां संसंगे प्रकृतिसमसमवाये आत्रेयभद्रकाप्यीयोक्तं पट्पञ्चाशद्विधे दोषाणां वातपित्तकफानां द्वित्रिदोषसंसंगें प्रकृतिसमवाये कियन्तः शिरसीयोक्ते नैकोनपष्टिविधे । ये रमा विकास्त्रिकाagratः पञ्च पत्रिकेव सह समानगुणाः समानप्रभावाः कार्यगुणे गुणाभावात् समानगुणभूयिष्ठा वा समानप्रभावभूयिष्ठा वा भवन्ति तं रसास्तान समानप्रभावान दोपान क्षीणान वा समान वा वृद्धान वाभिबर्द्धयन्ति । समपरिमाणेन रसानां दोषाणाञ्च मेलने हि विरोधिनां नास्ति विरोधः समवलत्वात् । विषममानेन मेलने तु विरोधिनां रसानां दोषाणाञ्च बलीयसा यादवले नाल्पवलस्यावजये न्यूनमध्यादंशावशेपे हीनमध्यादिरूपेण मेलनं भवति, तत्रापि हीनमध्यादिदोषाणां समानप्रभावाः समानप्रभावभूयिष्ठा या हीनमध्यादिरसास्तान हीनमध्यादिदोपान वर्द्धयन्ति । विपरीतगुणास्त्विति । ये रसाद्विकास्त्रिकाचतुष्काः पञ्चका वा यैर्दोषैदिकैः त्रिकैर्वा विपरीत प्रभावा विपरीत प्रभावभूयिष्ठा वा ते रसा अभ्यस्यमानास्तान दोषान शमयन्ति । तत्रापि हीनमध्यादिदोषाणां प्रभावविपरीता हीनमध्यादि अथ कया युक्त्या रसा दोषान् जनयन्ति समयन्ति चेत्याह - रसदोषेत्यादि । सन्निपात इत्यन्तःशरीरमेलकं । 'तु'शब्दो विशेषे, तेन विपरीतगुणा एव विशेषेण विपरीतगुणभूयिष्ठापेक्षया शमयन्तीति दर्शयति । रसानान्तु यथा उपचारात् गुणा भवन्ति तदभिहितं For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy