________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६६ चरक-संहिता।
रसविमानम् रसा जनयन्ति, त्रयस्त्रयश्चोपशमन्ति । तद यथा--- कटुतिक्तकषाया वातं जनयन्ति मधुराम्ललवणास्तं शमयन्ति, कटुम्ललवणाः पित्तं जनयन्ति, मधुरतिक्तकषायाः पुनरेनत् शमयन्ति । मधुराम्ललवणाः श्लेष्माणं जनयन्ति, कटुतिक्तकषायास्त्वेनश्च शमयन्ति ।
नस्ने सिजनयन्ति. त्रयस्त्रयो रसास्तत्ततत्रित्रिरसवव्याणि तैस्तै रमैश्वोपशमन्ति । तत उदाहरति तद यथेत्यादि। तं वातम्। एनत् पित्तम् । पुनरेनं इलेष्माणम्। इति रसानां प्रभावाः, एवम्प्रभावाश्च वातपित्तश्लेष्माणः प्रभावसामान्यात तेषां वृद्धिः, प्रभाववैशेष्यात तेषां प्रशान्तिः। तद् यथा--कटुतिक्तकषाया रसा यादृशप्रभावाः तादृशप्रभाव एवं वायुः, नै रसैः जन्यते वायो द्धिः ; मधुरामललवणास्तु यादृशप्रभावा न तादृशप्रभावो वायुः. अनः प्रभाववैशेष्यात ते ग्मातस्य हासः क्रियते। एवं कदम्ललवणा यादृशप्रभावास्तादृशप्रभावं पित्तं, प्रभावसामान्यात् तै रसः पित्तं बध्यते। मधुरतिक्तकषायास्तु यादृशप्रभावास्तादृशप्रभावं न पित्तमतः प्रभाववैशेष्यात पित्तस्य तै रसहासः क्रियते। एवं मधुरामललवणा यादृशप्रभावाः तादृशप्रभाव एव उलेष्मा, प्रभावसापान्यात तं ते वर्द्धयन्ति । कटुतिक्तकषायास्तु यादृशप्रभावा न नादृशप्रभावः उलेष्मा, ततः प्रभाववैशेष्यात ते रसाः श्लेष्मणो हास कुर्वन्ति। न हि कटुरसम्य गुणा लघूष्णरुक्षखानि, तिक्तस्य रुक्षशीतलघुखानि । कषायस्य रोक्ष्यशैत्यगौरवाणि। मधुरस्य स्निग्धवगुरुत्वशैत्यानि। अम्लस्य लघुखोष्णवस्निग्धत्वानि। लवणस्य गुरुखस्निग्धत्वोष्णवानि। कार्यगुणे गुणाभावात । नत्तदरसाश्रयाणान्तु द्रव्याणां ते गुणाः ; अतो न गुणसामान्यविशेषो वातादीनां कदादिरसैः सह विदाते. न वा कर्म सामान्य विशेषौ
अपि तत्तदरसोपशमीयत्वविशेष उक्तो भवति। कटुतिक्तकषाया वातं जनयन्तीति असति परिपान्थनीति ज्ञेयम् : तेन अर्कागुरुगुडूच्यादीनां तिक्तानामपि वाताजनकरवे न दोषः। तत्रोष्णवीर्यता परिपन्थिनी विद्यते, तेन न ते वातं जनयन्तीत्याद्यनुसरणीयम्। एनमितिपदेन, यश्च कटादिजो वायुस्तमेव मधुरादयः सर्वात्मवैपरीत्यविशेषेण शमयन्तीति दर्शयति। जागरणादिजे हि वायौ जागरणादिविपरीताः स्वप्नादय एव पथ्याः। एवं पित्तश्लेष्मणोरपि ‘एनदेन'-शब्दयोसात्पर्य दर्शयति ।
For Private and Personal Use Only