________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
विमानस्थानम् ।
१३६५ तत्रादो रसद्रवादोषविकारप्रभावान् वक्ष्यामः। रसास्तावत् खलु षट् मधुराम्ललवणकटुकतिक्तकषायाः। ते सम्यगुपयुज्य: मानाः शरीरं यापयन्ति मिथ्योपयुज्यमानास्तु खलु दोषप्रकोपायोपकल्पन्ते। दोषाः पुनस्त्रयो वातपित्तश्लेष्माणः। ते प्रकृतिभूताः शरीरोपकारका भवन्ति। विकृतिमापन्नाः खलु नानाविधैर्विकारः शरीरमुपतापयन्ति। तत्र दोषमेकैकं त्रयस्त्रयो
गङ्गाधरः---तत्र विमानोपदेशे कर्त्तव्ये खादी रसादिप्रभावान् वक्ष्याम इति प्रतिज्ञा। अत्र रसशब्देन रसाश्रयद्रव्यं विवक्षितं, रसोपदेशेन तद्रव्यमुपदिश्यते। रसास्तावदित्यादि। प्रभवन्ति प्रभवो भवन्ति भावाः कम्मसमर्था भवन्त्येतैः स्वभावैर्वा गुणैर्वा कर्माभिर्वेति प्रभावाः । तत्र रसाः षट् मधुरादयः, ते सम्यगुपयुज्यमानास्तत्तद्रसद्रव्याण्युपयुज्यमानानि समयोगतः उपयुज्यमानाः शरीरमारोग्येण कालं यापयन्ति गमयन्ति। मिथ्योपयुज्यमानास्तु ते रसाः तत्तद्रसवन्ति द्रव्याणि खल असम्यगुपयुक्तानि दोषणकोपायोपकल्पन्ते प्रक्लूतानि भवन्ति । दोपविकारप्रभावानाह-दोष इत्यादि। त्रय इति सङ्ख्यामानम् । प्रकृतिभूता इत्यविषमाः । शरीरोपकारकाः आरोग्याय क्लुप्ता भवन्ति । विकृतिम् आपन्नास्तु विषमा वातपित्तश्लेष्माणः खलु नानाविधैर्वरादिभिविकारैः शरीरम् उपतापयन्ति । कथमेवं रसाः कुव्वेन्तीत्यत आह---तत्रेत्यादि। तत्र वातादीनां त्रयाणां शरीरस्य यापनायामुपतापने च खल्वेकैकं दोषं वातायन्यनम पाणां मधुरादीनां रसानामन्यतमास्त्रयस्त्रयो रसास्त्रित्रिरसवव्याणि
चक्रपाणिः---अध्यायार्थ वक्तु प्रतिजानाति- तनादावित्यादि। यद्यपि च दोषभेषजेत्यादौ दोषापेक्षत्वाद भेषजस्य, दोष आदौ कृतः, तथापीह रसद्व्यरूपभेषजस्यापेक्षितरोगप्रशमकत्वेन तथा दोषस्यापि रसद्रव्ययोरेव कारणत्वेन भेषजशब्दसूचितेन रसदव्ये एवाने कृते, पश्चात् तु दोषग्रहणगृहीती दोषविकारौ ; प्रकृष्टो भावः प्रभावः शक्तिरित्यर्थः, स चेहाचिन्त्यश्चिन्त्यश्च ग्राह्यः। येन, "तत्र खल्वनेकरसेषु" इत्यादिना द्रव्यविकारयोः प्रभावं रसदोषद्वारा च चिन्त्यमपि वक्ष्यति । यापयन्तीति साम्येनावस्थापयन्ति । 'मिथ्या'शब्द इहातियोगायोमिथ्यायोगेषु वर्त्तते। दोषा इति शारीरदोषाः। 'पुनः'शब्दो मानसदोषं व्यावर्त्तयति ।
रसानामसंसृष्टानां कर्माह-तत्रेत्यादि। अनेन च रसकर्मोपदेशेन दोषाणाम्
For Private and Personal Use Only