SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६४ चरक-संहिता। [ रसविमानम् इह खलु वाधीनां निमित्तपूर्वरूपरूपोपशयसंख्याप्राधान्यविधिविकल्पबलकालविशेषानभिनिविश्य, रसद्रवादोषविकारभेषजदेशकालबलशरीरसाराहारसात्म्यसत्त्वप्रकृतिवयसां, मानम् अवहितमनसा यथावजज्ञयं भवति भिषजा दोषादि मानज्ञानायत्तत्वात् क्रियायाः। न ह्यमानज्ञो दोषादीनां + भिषग वाधिनिग्रहसमर्थो भवति, तस्माद् दोषादिमानज्ञानार्थं 8 विमानस्थानमुपदेच्यामोऽग्निवेश ॥२॥ गङ्गाधरः-ननु किमर्थं विमानं व्याख्यातव्यमित्यत आह --इहेत्यादि । संख्यादयः सम्माप्तिभेदाः पृथगुक्ताः स्फुटतया ज्ञापनार्थम् । व्याधीनां निमित्तादीन् सर्वानशेषविशेषेण व्याधिशानार्थमभिनिविश्य विविच्य, अनन्तरमवहितमनसा भिषजा तव्याध्यारम्भकदोषादीनां मानं यथावत् ज्ञेयं भवति । कस्मात ? दोषादिमानानायत्तखात् क्रियायाः। तदव्याधिप्रतिकारक्रियायाः तदव्याध्यारम्भकदोपस्य तस्य विकारस्य तव्याधिप्रशमार्थ भेषजस्य तद्व्याध्युत्पत्तेदेशस्य कालस्य च तदव्याधिमतः पुरुषस्य बलस्य शरीरस्य खगादिसाराणामाहारद्रव्याणामाहारविहाराभ्यां सात्म्यानां सत्त्वस्य ब्राह्मादिमनोभेदबलाबलतो मनसः, प्रकृतेः समपित्तानिलकफप्रकृतिवातलादिप्रकृतेः बाल्यादिवयसश्च मानशानाधीनसात् । ननु कस्मात् क्रियाया दोपादिमानज्ञानायत्तत्वम् इत्यत आह--न हीत्यादि। हि यस्मात् । दोपादीनाम् अमानको मानानभिज्ञो भिषक व्याधिनिग्रहसमर्थो न भवति। स हि दोषाल्पाधिकादिमाने तदभेषजादीनामननुरूपेण प्रयोगं करोति । तस्माद् दोषभेषजादीनां मानशानार्थ विमानस्थानं व्याख्यास्याम इति ॥२॥ चक्रपाणिः--इह सम्प्राप्तिभेदसंख्याप्राधान्यादिग्रहणेनैव सम्प्राप्तिमुपदिशन् संख्यादिभेदेन सवैय सम्प्राप्तिः कथिता भवतीति दर्शयति । निमित्तादीनान्तु न तादृशोऽल्पग्रन्थो वक्तव्योऽस्ति, येन भेदेन तेऽपीह कथ्यन्ते, अतस्ते सामान्येनोक्ताः। अनुप्रविश्येति बुद्धा। दोषादयः सूत्रस्थान एवं प्रपञ्चिताः। मानमिति प्रभावविशेषः। एतजज्ञाने हेतमाह-दोषादीत्यादि। क्रियायो-इति चिकित्सायाः ॥२॥ * "अनुप्रविश्यानन्तरं दोपभेषजेत्यादिपाठः चक्रसम्मतः। रसादीति वा पाठः । + रसादीनाामत्यपरः पाटः। $ रसादिमानज्ञानार्थमिति पाठान्तरम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy