________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
विमानस्थानम् ।
प्रथमोऽध्यायः।
अथातो रसविमानं वाख्यास्यामः, इतिह
स्माह भगवानात्रेयः॥१॥ गङ्गाधरः-अथ स्थानोदेशक्रमाद् विमानस्थानमारभते-अथात इत्यादि। विशेषेण यथायोग्यता मीयतेऽनेनेति विमानं, रसस्य विमानं रसविमानमधिकृत्य कृतोऽध्यायस्तं तथा। शेषं सर्च पूर्ववत् व्याग्व्येयम् ॥१॥
चक्रपाणिः-निदानज्ञातहेत्वादिपञ्चकस्य चिकित्सोपयोगिनाया दोषभेषजादिविशेषज्ञानमपेक्षित भवत्यतो वक्ष्यमाणदोषभेषजादिविशेषज्ञापकं विमानं बने। तत्रापि च दोषभेषजयोः प्राधान्यान तद्विशेषज्ञापक रसविमानं प्रथमं बने। तत्रापि इमञ्च स्थानसम्बन्धमध्यायसम्बन्धन दर्शयिष्यति ;-विशेषेण मीयते ज्ञायते दोषभेषजायनेनेति विमानं, दोषभेषजादीना प्रभावादिविशेष इत्यर्थः। एवम्भूतं विमानमभिधेयतया यत्र तिष्ठति तद्विमानस्थानम् । रसविमानमधिकृत्य कृतीभ्यायो रसविमानम् । इह खल्वित्यादिना स्थानसम्बन्धमाह ॥१॥
१७५
For Private and Personal Use Only