________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६० चरक-संहिता।
अपस्मारनिदानम् तत्र श्लोकाः। हेतवः पूर्वरूपाणि रूपाण्युपशयस्तथा। सम्प्राप्तिः पूव्वमुत्ततिः सूत्रमात्रं चिकित्सितम् ॥ ज्वरादीनां विकाराणामष्टानां साध्यता न च । पृथगेकैकशश्चोक्ता हेतुलिङ्गोपशान्तयः ॥ हेतुपर्याय नामानि वाधीनां लक्षणस्य च । निदानस्थानमेतावत् संग्रहेणोपदिश्यते ॥
गङ्गाधरः--अध्यायार्थ पूवें संगृह्णन् स्थानार्थमुपसंहरति--तत्र श्लोका इत्यादि। चिकित्सितमित्यन्तेनाध्यायार्थसंग्रहः। ज्वरादीनामित्यादिना
जननहेतोरुपरमेऽपि तत्तजनितदोपादिदर्शनात् मृपैतद्वचनम्-‘हेतोरभावान प्रवर्तते' दति ; यद, उपरतेऽपि दध्यादौ दध्यादिजनितो दोषसन्तानः शोथानुजनकस्तत्र प्रवर्तते ॥ १६ ॥
चक्रपाणि:-संग्रहे 'सूत्रमात्रं चिकित्सितम्' इत्यन्तेनापस्माराध्यायार्थसंग्रह उक्त इति योद्धव्यम् । 'ज्वरादीनाम्' इत्यादिग्रन्थेन तु निदातस्थानोक्तसंग्रहं करोति । यद्यपि ज्वरस्य ज्वरनिदानेऽसाध्यता नोक्ता, तथापि 'अष्टानाम्' इतिपदं “छत्रिणो गच्छन्ति' इति न्यायेन बोध्यम् ; किंवा अष्टानां हेतुलिङ्गोपशान्तय इति योजनीयम् ; असाध्यता यथायोग्यतयैव बोदव्या। पृथक्त न चैकैकशश्चेति पृथगेकशः ; तेन, पृथक्त न सर्वसाधारणहेत्वादयो निदानस्थानादावुक्ताः, तथैवैकशश्च ज्वरादीनां हेतुलिङ्गोपशान्तयः स्वे स्वे अध्याये उक्ताः । अत्र च लिङ्गग्रहणेन पूर्वलिङ्गग्रहणम्, उपशान्तिग्रहणेन चोपशयग्रहणम्, सम्प्राप्त स्तु प्रतिरोगम् अभिधानाद ग्रहणं व्याख्येयम् । हेतुपर्यायनामानीति “हेतुनिमित्तम्” इत्यादिना, व्याधिपर्यायनामानीति नथा लक्षणपर्यायनामानीति चाध्यायोक्तान्येव ज्ञेयानि । सम्प्राप्तेस्तु “सम्प्राप्तिर्जातिरागतिः” इति नामकथनं लक्षणप्रयोजकमेव प्रायः, तेन इह न संगृहीतम ; किंवा, हेतव इत्यादि स्थानसंग्रह एव, अपस्माराध्यायार्थसंग्रहस्तु, स्थानसंग्रहेणैवाव्यवहितत्वेन कृतत्वान्न पृथक कृतः ; तत्र हेतव इत्यादि सर्वरोगे हेत्वादिसंग्रहणम् ; अस्मिन् सम्पर्के पृथक्त नेति ज्वरादीनामिति सम्बध्यते । संग्रहेणेतिवचनात् चिकित्सितप्रपञ्चनीयं निदानं सूचयति । केचिदन्न निदीयते निबध्यते हेरवादि
For Private and Personal Use Only