________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः
१३८६
निदानस्थानम्। ज्ञानार्थं यानि चोक्तानि व्याधिलिङ्गानि संग्रह। व्याधयस्ते तदात्वे तु लिङ्गानीष्टानि नामयाः ॥ विकारः प्रकृतिश्चैव द्वयं सव्वं समासतः। तद्धेतुवशगं हेतोभावान्नानुवर्तते ॥ १६ ॥
गङ्गाधरः-ननु चरादीनां लिङ्गानि यानि कम्पतृष्णादीन्युक्तानि तानि च पृथगव्याधयो दृश्यन्ते इति सर्वेषामेव व्याधिसङ्कर एकान्तेन भवतीत्यत आह-ज्ञानार्थमित्यादि। व्याधेर्मानार्थ यानि लिङ्गानि व्याधिरूपाणि चोक्तानि ते व्याधिसंग्रहे व्याधिपरिसङ्घयावचनसङ्क्षपे व्याधय एवोक्ताः तदावे तु व्याध्यन्तरज्ञानार्थोक्तख तु लिङ्गानीष्टानि न पृथगामया इष्यन्ते, इति न व्याधिसकर एकान्तेन स्यादिति। ननु कुतस्त तदाखे पृथगामया नेष्यन्ते इत्यतस्तत्र हेतुरुन्नेयः प्रधानतया तयाधेश यखेन तद्ववाधिविज्ञानतया तेषामप्राधान्यादिति सङ्क्षपः। प्रकृतिविकारप्रत्तिनिवृत्तिहेतु दर्शयन्नाह-विकार इत्यादि। विकारो धातुवैषम्यं प्रकुतिर्यातुसाम्यमिति । द्वयमेव समासतः सर्व प्रकृतिविकारव्यतिरिक्तश्च न हि किश्चिदस्ति । तद्विकारप्रकृतिरूपं द्वयं हेतुवशगं, न हि कारणमन्तरेण विकारो वा प्रकृतिर्वा निखिलेन तन्त्रेणोपदिश्यते ॥१६॥
चक्रपाणिः सम्प्रति निदानेनोक्तानाञ्च व्याधीनां पृथगव्याधित्वमपि भवतीन्याह ज्ञानार्थमियादि। संग्रह इति व्याधिनिदानादिसंग्रहे ; ये निदानस्थाने ज्ञानार्थं प्रधानभूतज्वरादिज्ञानार्थ व्याधयः सन्ति, तेऽविपाकारुच्यादयः स्वातन्त्रेषणोत्पद्यमाना व्याधय एव व्याधित्वेनैव व्यपदेष्टव्या श्यर्थः । तदात्वे तु लिङ्गानीति, यदा ज्वरादिपरतन्त्रा जायन्तेऽरुच्यादयः, तदा पारतन्त्रवाल्लिङ्गान्येव ते, नामयाः ; आमयो हि स्वतन्त्रः स्वचिकित्साप्रशमनीयो भवतीत्यायुर्वेदस्थितिः, ज्वरलिङ्गरूपास्त्वरुच्यादयो ज्वरचिकित्साप्रशमनीया एवेति भावः।
सम्प्रति निदानाधिकृतस्य हेतोर्विभावमाह - विकार : इत्यादि। विकारो वैषम्यम् ; प्रकृतिः साम्यम्। सर्वमित्यनेन शारीरं भावं वाह्यञ्च तथाध्यात्मिकच अयं गृह्णाति ; हेतुवशगमिति हेत्वधीनोत्पादात् ; एतेन आरोग्यरूपप्रकृत्यर्थिना साम्य हेतुः सेवनीयः, तथा विकाररूपरोगपरिहारार्थिना च विकारहेतुः वर्जनीयः ; न च वाच्यम् यद -- दध्यादिशोथ
For Private and Personal Use Only