________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८८ चरक-संहिता।
अपस्मारनिदानम् व्याध्यवस्थाविशेषान् हि ज्ञात्वा ज्ञात्वा विचक्षणः । तस्यां तस्यामवस्थायां तत्तच्छ्र यः * प्रपद्यते॥ प्रायस्तिर्यगगता दोषाः क्लेशयन्त्यातुरांश्चिरम् । तषान्तु + त्वरया कुर्यात् देहाग्निबलकृक्रियाम् ॥ प्रयोगैः क्षपयेद वा तान् सुखं वा कोष्ठमानयेत् ।
ज्ञात्वा कोष्ठप्रपन्नांस्तान् यथास्वं तं हरेद् बुधः ॥ १५ ॥ तेन दोषाणां मूक्ष्मामपि वृद्धाद्यवस्था देहाग्निवलचेतसामपि च मूक्ष्मामवस्था प्राज्ञो वैद्य उपलक्षयेत् तत्तल्लिङ्गैरिति शेषः। कस्मादित्यत आह-व्याध्यवस्थेत्यादि। हि.यस्माद विचक्षणो यदि व्याध्यवस्थाविशेषं जानाति तदा तस्यां तस्यामवस्थायां तत्तदवस्थाश्रेयो यत् कर्म तत् प्रतिपद्यते जानीते । जानन हि तात्तदव स्थिककम्मणा तत्तद्वप्राधिं शमयितु समर्थः स्यादिति । अवस्थाशान प्रयोजनार्थमुदाहरणं दर्शयति-प्राय इत्यादि। देहस्य चाग्नेश्च वलकरौं क्रियां देहबलकरीमग्निबलकरीश्च क्रियां खरया कुर्य्यात् । तांस्तिय॑गगतान् दोषान् प्रयोगः शमनर्वा रुपयेत् । यदि संशमनैः क्षपयितुमशक्याः स्पुस्तथा मुखं यथा स्यात् तथा तांस्तिय्यंगगतान् दोषान् कोष्ठं वा आनयत् । ननु कोष्ठानयनेन किं स्यादित्यत आह---शाखेत्यादि। यथास्वं वमनविरेचनादिना कफपित्तादुरपयोगिना निर्हरणेन नमातुरं हरेत् तान कोष्ठप्रपन्नान दोपान हारयंत् इत्यन्तर्भावितो णिजथः ॥१५ न केवलं रोगाणाम्, किन्तु देहाग्निबलचेतसामपि वृद्धिस्थानक्षयमुपलक्षयेदिति योजना। एतयाध्यवस्थाज्ञानप्रयोजनमाह-याध्यवरथेत्यादि। चतुःश्रेय इति चतुःश्रेयःकारक चिकित्सितं प्रपद्यते बुध्यत इत्यर्थः । ___ ब्याधिप्रकारानभिधाय चिकित्सापयुक्तान् दोषप्रकारानाह-- प्राय इत्यादि। तिर्यगगताश्च दोषा उन्मार्गगतत्वेन न सम्यक शीघ्रं वा भेषजेन योजयितु पारर्यन्ते , तेन चिरं क्लेशयन्तीति युक्तम् । देहाग्निबलविदित्यनेन तिर्यगगतदोघे त्वरया भूरिप्रयोगे भेषजप्रयोगेण क्रियमाणा चिकित्सा देहाग्निबलन्च हन्तीति सूचयति । प्रयोगैरिति भल्पमात्रदीर्घकालप्रयोगैः । सुखं वेति सुखं यथा भवति तथा मलं हरेदित्यर्थः । यच्छोधनं वमनादि तत्रामाशयगते दोषे आसन्नं हरणयोग्यतया भवति, तेन हरेदित्यर्थः ॥ १५ ॥ * चतुःश्रेय इति पाठान्तरम् ।
। तेषु न' इति पाठः साधुः ।
For Private and Personal Use Only