________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८म अध्यायः
निदानस्थानम् ।
सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते । साध्यते कृच्छ्रसाध्यस्तु यत्न ेन महता चिरात् ॥ याति नाशेषतां व्याधिरसाध्यो याप्यसंज्ञितः । परोऽसाध्यः क्रियाः सर्वाः प्रत्याख्येयोऽतिवर्त्तते ॥ नासाध्यः साध्यतां याति साध्यो याति त्वसाध्यताम् । पादापचाराद् देवाद वा यान्ति भावान्तरं गदाः ॥ १४ ॥ वृद्धिस्थान यावस्थां दोषाणामुपलक्षयेत् । सुसूक्ष्मामपि च प्राज्ञो देहाग्निबलचेतसाम् ॥
अथ
शान्तिप्रसङ्गसङ्गत्या सुखसाध्यत्वादेः कारणमाह- सुखसाध्य इत्यादि । सुखोपाय एकक्रिययानक रोगप्रशान्तिर्यदि स्यात् तदा सङ्करो - ऽपि सुखोपायः सन् सुखसाध्यः स्यात् इत्यभिप्रायेण सूत्रमिदमुक्तम् । अल्पक्रिययाल्पयत्नेन प्रशमो यस्य स सुखोपायः । अल्पेन कालेनाल्पेन च यत्न ेन यः साध्यते स सुखसाध्यः, महता यत्न ेन चिरेण च कालेन यः साध्यते स कुच्छसाध्यः यस्तु महता यत्नेन चिरादपि कालादशेषतां निःशेषतां न याति शान्तिञ्च नैति किञ्चिद्वैति न च मारयति स याप्यसंशितोऽसाध्यः, परो यो महता यत्न ेन चिरादपि कालाच्छान्तिं नैति सर्व्वाश्च क्रिया अतिवर्त्तते स प्रत्याख्येयोऽसाध्यः स्यात् । तस्मात् नासाध्यः साध्यतां याति साध्यस्त्वसाध्यतां याति । कस्मात् ? पादापचारात् भिषगादिपादचतुष्टयस्य अयथावद्भावेन योगात् । दैवाद वा गदा भावान्तरं यान्ति ॥ १४ ॥
गङ्गाधरः- पादेषु भिषजो मुख्यत्वात् वैद्यस्य साधनयोग्यतोपायमाहवृद्धीत्यादि । वृद्धादुपलक्षणात् तिय्र्य्यगादिगत्यवस्थाश्च लक्षयेत् ।
Acharya Shri Kailassagarsuri Gyanmandir
१३८७
चिकित्साभिधानप्रसङ्गेन चिकित्साप्रवृत्तिविषयं साध्यभेदं तथा चिकित्सानिवृत्तिविषयमसाध्यभेदमाह - सुखेत्यादि । सुखोपाय इति सुखलभ्यवैद्याद्य पायः ; किंवा सुखोपायः सन् साध्यत्वमल्पेनैव यत्नेनैव साध्यत इत्यर्थः । याति नाशेषतामिति न सर्व्वथा निवर्त्तते । परोऽसाध्य इति याप्यापेक्षया उत्कृष्टोऽसाध्यः अस्यैव विवरणम् - प्रत्याख्येय इति । क्रियाश्चिकित्साः । भावान्तरमिति सुखसाध्यः कृच्छ्रसाध्यो भवति, कृच्छ्रश्च याप्यः, याप्यश्व प्रत्याख्येयो भवति ॥ १४ ॥
क्रपाणिः - व्याधेः सुखसाध्यत्वाभिधानप्रसङ्गेन
For Private and Personal Use Only
वृद्धनाद्यवस्थान्तरमाह-वृद्धीत्यादि ।