SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८६ चरक-संहिता। अपस्मारनिदानम् लघ्वशनाद्या बहाः क्रियाः शान्तय इति बोध्यम् । अथान्यैरेको हेतुरनेकस्य इत्यारभ्य प्रशान्तय इत्यन्तो ग्रन्थो व्याख्यातः। तद् यथा। नन्वेवं प्रयोगापरिशुद्धतात् तथा चान्योन्यसम्भवाद व्याधिसङ्करा भवन्तु, उत्तरकालन्तु युगपच्च व्याधिसङ्करा दृश्यन्ते ; ते च कुतो भवन्तीत्यत आह-एको हेतुरित्यादि । यथा। एकस्मादरुक्षाद्धेतोवरभ्रमप्रलापाद्या जायन्ते इति। अत्रायं भावः। समानकारणं यदातिसेवितं भवति तदा युगपदेव व्याधिस करो भवति । भवति च तस्य समानहेतुजानेकव्याधेरेकं लिङ्गं शान्तिश्चैकैव रुक्षादिविपरीता स्नेहादिक्रिया। तदव्यभिचारं दर्शयति--तथैकस्यैव व्याधेरेक एव हेतुः। यथा। रुक्षेण केन ज्वरादीनां विनापि स्वकीयकारणान्तरमेक एव ज्वरोऽपि च भ्रमादरकशश्वोपजायते न तु व्याधिसङ्करः स्यात्। यदा पुरुषो रुक्षमेकं कारणं नातिसेवते ज्वरभ्रमादिसाधारणजनकमपि तदनतिपरिमितरुक्षं दुब्बेलखात् सर्वान् ज्वरादीन् न जनयिखा ज्वरादीनामन्यतमं जनयति। तदा च युगपप्राधिसङ्करो न स्यात् । तस्यैव चैकस्य व्याधेलिङ्गम् अप्येकमेका च शान्तिः स्नेहादिरूपा तदेकमात्रहेतुजलादिति भावः। ननु समानासमानकारणेन सङ्करासम्भवः किं न स्यादित्यत आह-व्याधेः एकस्य चानेको हेतुरस्ति, यतस्तस्मान युगपदाधिसङ्करः स्यात् । तद यथा । हेतुभिर्बहुभिश्चैको ज्वरो रुक्षादिभिभवेत् इति। तस्यानेकहेतुजस्य लिङ्गानि अपि बहूनि भवन्ति बहुहेतुलाच शान्तिरपि स्नेहादिरूपैवानेका क्रियेति । नन्वस्तु बहूनामेककारणले व्याधिसङ्करः परन्तु बहूनां बहुहेतुकलेपि किं व्याधिसङ्करो न स्यादित्यत आह-बहूनां बहवोऽपि चेति। थथा रुक्षादिभिः बहुभिः समानः कारण ज्वराद्याः सम्भवन्ति हि यस्मात् तस्माच युगपद्माधिसङ्करः स्याद बहुहेतुजलाद बहूनामपि तेषां व्याधीनां बहून्येव लिङ्गानि भवन्ति शान्तिश्च तेषां बहुधा भवतीति । इत्थञ्चैकहेतुकज्वरभ्रमाद्यनेको व्याधिः अप्येकक्रियत्वात् मुखोपायः स्वल्पकालसाध्यखात सुखसाध्य एवमेकहेतुक एककश्च ज्वरायन्यतमो व्याधिरेकक्रियखात् सुखोपायः स्वल्पकालसाध्यसाच्च मुखसाध्यः। तथा बहुहेतुक एकस्तु व्याधिबहुहेतुजलाद, बहुलिङ्गलाद, बहुशान्तिवाच्च कृच्छसाध्यः। तथा बहुहेतुको बहुव्याधिः कृच्छसाध्यो याप्यः प्रत्याख्येयो वा स्यादित्यभिप्रायेणाह-लिङ्गञ्चैकमित्यादि । एवं शान्तिरपि व्याख्येया। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy