SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दम अध्यायः निदानस्थानम् । ज्वरभ्रमप्रलापाया दृश्यन्ते रुक्षहेतुजाः । रुक्षणैकन चाप्येको ज्वर एवोपजायते ॥ हेतुभिबहुभिश्चैको ज्वरो रुनादिभिर्भवेत् । रुक्षादिभिज्वरायाश्च व्याधयः सम्भवन्ति हि ॥ लिङ्गञ्चैकमनेकस्य तथैकस्यैकमुच्यते । बहून्येकस्य च व्याघेर्बहूनां स्युर्बहूनि च ॥ एको हेतुरित्यादि। अनेकस्य व्याधेरेको हेतुर्हि यस्मादस्ति यथा ज्वरभ्रमप्रलापाया रुक्षादेकस्माद्धेतोर्जायन्ते इति दृश्यते। अत्रेदमवधातव्यं, ज्वरभ्रमप्रलापादिजनने विनिगमनाभावस्तु रुक्षस्य भ्रमप्रलापादिकानां यदा यदीयकारणान्तरसहकारः स्यात् तदा तत्तग्राधिजनकवं स्यादित्यनुगमवचनेन निरसनीयः, कारणान्तरसहकाराभावे तु ज्वर एव स्यादित्यभिप्रायेण । तथैकस्य एक एव व्याधेहेतुरिति सूत्रस्योदाहरणं दर्शयति-रुक्षेणैकेन चेत्यादि । एकेन चापि अपिशब्दस्याल्पार्थवेन तत्तग्राधिजनककारणान्तरसहकाराभावे खेकेन तु रुक्षेण एक एव ज्वर उपजायते न तु भ्रमादिः । व्याधेरेकस्य चानेको हेतुरस्ति यथा हेतुभिवहुभिरेव रुक्षादिभिरिति रुक्षशीतादिभिरेको ज्वरो भवेत् । बहूनां व्याधीनां बहवोऽपि हेतवः सन्ति यथा-रुक्षादिभिर्वररक्तपित्तगुल्मादुाक्तः स्वैः स्वैबहुभिहेतुभिज्वररक्तपित्तादयो बहवो व्याधयः सन्ति, अत एवात्रायं भावः-यस्मात् तु यो जायते तच्चेदन्यस्यापि कारणं स्यात् तदा यद्यपरहेतुसहकारः स्यात् तदाधिस्तस्मान्निदानाद्भवेत् तस्य चोत्पन्नव्याधे. येन वृद्धिः स्यात् तस्माद यदपरव्याधिसम्भवः स्यात् स व्याधिस्तेन व्याधिना जन्यते स्वयश्च न प्रशम्यते । यदा स्वप्रशमनहेखपरजननहेतूमयसेवनं स्यात् तदा स व्याधिरन्यं व्याधि जनयित्वा स्वयं शाम्यति इति । यद्यन्यव्याधिहेतुसेवनं न स्यात् तदा व्याध्यन्तरं न जनयति स्वयं केवलं वर्द्धते इति बोध्यः । __ एवं व्यवस्थिते सति लिङ्गञ्चैकमनेकस्य व्याधर्भवति, यथा हि आह-ज्वर इत्यादि। यद्यपि रुक्षं बहूनां कारणम्, तथापि देशकालादिवशात् कदाचिदेकस्य एव ज्वरस्य कारणं भवतीति ज्ञेयम् ; रुक्षादिभिरिति रुक्षोष्णादिभिलवणादिभिः , ज्वराया इति जररक्तपित्तगुल्माद्याः। लिङ्गस्थापि हेतोरिव चातुबिध्यमाह -लिङ्गमित्यादि। तथैवैकस्य लक्ष्यत इति एक For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy