________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३८४
चरक संहिता ।
विषमारम्भमूलानां लिङ्गमेकं ज्वरो मतः । ज्वरस्यैकस्य चाप्येकः सन्तापो लिङ्गमुच्यते ॥ विषमारम्भमूलैश्च ज्वर एको निरुच्यते । लिङ्गरैतैर्ज्वरश्वास- हिकाद्याः सन्ति चामयाः ॥
Acharya Shri Kailassagarsuri Gyanmandir
अपस्मारनिदानम्
समानं यन्निदानं तन्निदानेन प्रतिनियतकारणान्तरसहकारेण यो रोगो जन्यते तस्मिन् व्याधौ समानकारणकुपितदोषजानि लिङ्गानि तानि च तत्समाननिदानजान्यरोगेऽपि भवन्ति इति समाननिदानखेन समानलिङ्गखं, यथा विषमारम्भमूलानां व्याधीनां सव्र्व्वेषामेव लिङ्गं ज्वर एकः स्यात्, तथा तेनैव प्रकारेण एकस्य व्याधेरेकमेव लिङ्गमुच्यते विभिन्न निदानत्वात् यथा ज्वरस्यैकस्याप्येकः सन्तापो लिङ्गमुच्यते । न ह्यन्येषां व्याधीनां सन्तापोऽस्ति लिङ्गं तज्ज्चरनिदाने व्याख्यातम् । एवमेकस्य व्यावहूनि लिङ्गानि भवन्ति विभिन्न बहुहेतुखात् यथा विपमारम्भमूले विषमारम्भ विसर्गादिलिङ्गज्वेर एको निरुच्यते । एकस्यैव ज्वरस्य विषमारम्भविसर्गादीनि बहूनि लिङ्गानि इत्यर्थः । तथा बहूनां व्याधीनां बहूनि लिङ्गानि स्युः समानबहुहेतुत्वात् यथा लिङ्गैरेतैर्विषमारम्भमूलै विषमारम्भविसर्गादिभिः बहुभिलिङ्गैज्वरश्वासहिक्काद्या आमयाः सन्ति । नन्वेवं चेदेकस्य ज्वरस्य कथं विषमारम्भमूलानि बहूनि लिङ्गानि श्वासादीनामपि च तानि भवन्तीति चेन्न, रुक्षादिना कुपितबायोश्चललगुणेन कोपे श्वासादयो न भवन्ति नातो विषमारम्भविसर्गमात्राणि बहूनि विषमारम्भकवायुमात्रजानि भवन्ति श्वासादिषु श्वासादीनां कार णान्तरसहकारेण तु वायोः कफस्य च कोपे श्वासादयः स्युस्तत्र तल्लिङ्गान्तरसहितविषमारम्भविसर्गादीनि विषमारम्भकवातजानि लिङ्गानि भवन्ति । ज्वरे तु केवलरुक्षादिसेवनेन चलत्वगुणेन कुपितवातात् ज्वरीयकारणान्तर सहकाराभावेऽपि ज्वरो भवति, तत्र च वातलिङ्गातिरिक्तलिङ्गव्यतिरेकेण विषमारम्भविसर्गादिवातलिङ्गानि भवन्तीति विनिगमनयोपपत्तेः ।
For Private and Personal Use Only
लिङ्गमिति सम्बन्धः ।
विषमारम्भमूलानामिति
विषमारम्भप्रमाणानां विषमारम्भ
विसर्गित्वमुष्मणो वैषम्यमित्याद्यक्तज्वरलिङ्गानामित्यर्थः । ज्वरमेकं सन्तापात्मकं दृष्ट्वा विषमारम्भविसर्गित्वादयोऽस्य भूता भविष्यन्ति वर्त्तन्त इति लिङ्गयते । ज्वर एको निरुच्यत इति ज्ञायत इत्यर्थः । लिङ्गैरेतैरित्यादि । एतैर्विषमारम्भविसर्गित्वादैर्ज्वरादयः सन्ति युक्ता इति शेषः ।