SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८२ चरक-संहिता। * अपस्मानिदानम् एवं कृच्छ्रतमा नणां दृश्यन्ते व्याधिसङ्कराः । प्रयोगापरिशुद्धत्वात् तथा चान्योन्यसम्भवात् ॥ प्रयोगः शमयेद् व्याधिं योऽन्यमन्यमुदीरयेत् । नासौ विशुद्धः शुद्धस्तु शमयेद यो न कोपयेत् ॥१३॥ एको हेतुरनेकस्य तथैकस्यैक एव हि । व्याधेरेकरय चानेको बहूनां बहवोऽपि च ॥ उभयार्थकरखोपदर्शनम् । एवमनेन प्रकारेण व्याधिसङ्घले स पुरुषः कीदृशव्याधित उच्यते, इत्यत आह-एव मित्यादि। नन्वेवं व्याधिसङ्कराः कुतो भवन्तीत्यत आह-प्रयोगापरीत्यादि। प्रयोगाणामौषधयोगानाम् अपरिशुद्धखात् तथोक्त प्रकारेण व्याघीनामन्योन्यसम्भवाच व्याधिसङ्करा भवन्तीति । ननु प्रयोगस्यापरिशुद्धलं किं तावदित्यत आह-प्रयोग इत्यादि। यः प्रयोग औषधानविहारदेशकालादीनामुपयोग एक व्याधि शमयेदन्यमन्यं व्याधिमुदीरयेत् सोऽसौ प्रयोगो न विशुद्धो न परिशुद्धः। ननु कः प्रयोगः परिशुद्ध इत्यत आह-शुद्धस्वित्यादि। यस्तु प्रयोग एकमुदीर्ण दोषं शमयेदपरमुदीर्णमनुदीण दोषं न कोपयेत् सोऽसौ प्रयोगः शुद्धः परिशुद्धः उच्यते। एतेनैकैकशो द्विशश्च दोषाजाते ज्वरादौ तदनारम्भकदोषकोपजव्याधिमिश्रणेऽपि व्याधिसायं ख्यापितं भवति, न च केवलं हेतूपर हितबलव्याधिजव्याधिमिश्रणैाधि साङ्कर्यमिति ॥१३॥ गङ्गाधरः-ननु कुतो रोगा उभयार्थकरा एकाथकरा निदानार्थकरा वा भवन्ति, येन व्याधिसायं भवत्यन्योन्यसम्भवाद्याधीनामित्यत आहनिवर्तते, तदा कासकाले निवृत्तत्वात् हेत्वर्थमात्रं करोतीत्युदाहार्यम्। व्याधिसङ्करा व्याधिमेलकाः। कुतः पुनरेवं भवतीत्याह-प्रयोगेत्यादि। प्रयोगापरिशुद्धत्वात्, यथाआमातीसारे स्तम्भनं कृतं दोपं संस्तन्य शुलानाहाध्मानादि जनयति। हेत्वतरमाह-. अन्योन्यसम्भवादिति परस्परकारणस्वरूपत्वादित्यर्थः ; प्रतिश्यायो हि स्वरूपेणैव कासकारणम्, स च राजयक्ष्मण इत्यादि शेयम्। प्रयोगापरिशुद्धिं विवृणोति - प्रयोग इत्यादि। न प्रकोपयतीति व्याध्यन्तरं न कुर्यादित्यर्थः ; भन्योन्यसम्भवश्च ज्वरसन्तापाद् रक्तपित्तमुदीर्यत इत्यादिनैवोक्तो न विवियते ॥ ३॥ चक्रपाणिः-हेतुप्रकरणावेतुधर्मान्तरमाह-एको हेतुरित्यादि। एतत्पक्षचतुष्टयोदाहरणानि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy